SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १६६ संगीतरत्नाकरः सूत्कृतं वेदनादौ स्याच्छीते क्लेशे तु सीत्कृतम् ॥ ४८६ ॥ नखक्षते मृगाक्षीणां निर्दयाधरचर्वणे । विनियोगान्तराण्यत्र बुध्यतां लोकतो बुधाः ॥ ४९७ ॥ इति मतान्तरेण दशधा श्वसनः । इत्यानिलप्रकरणम् । विवर्तितः कम्पितश्च विसृष्टो विनिग्रहितः । संदष्टकः समुद्रश्चेत्यधरः षड्विधो मतः ॥ ४८८ ॥ अन्येऽन्यानूचुरुवृत्तविकास्यायतरेचितान् । ओष्ठयोः संपुटस्तिर्यक्संकोचेन विवर्तितः॥ ४८९ ॥ अवज्ञावेदनासूयाहास्यादिषु विधीयते । इति विवर्तितः (१) सुरते । स्तम्भितः शास्त्रमोक्षादौ । उच्छासः कुसुमाघ्राणे | निःश्वास अनुशयादौ । सूत्कृतं वेदनादौ । सीत्कृतं शीते, क्लेशे च प्रगोज्यम् । मृगाक्षीणां सुभ्रुवां निर्दयाधरचर्वणे च विनियोगान्तराण्यपि बुधाः लोकतोऽवगन्तव्याः ॥ ४८३-८४७ ॥ इति मतान्तरेण दशधा श्वसनः । ___ इत्यनिलप्रकरणम। (क०) अथाधरभेदान् लक्षयितुमाह-विवर्तितः कम्पितश्चेत्यादि ॥ ४८८-४९५. ॥ (सु०) अधरभेदानाह-विवर्तित इति । विवर्तितः, कम्पितः, विसृष्टः, विनिगूहितः, संदष्टकः, समुद्ग इत्यधरः षड्विधः । मतान्तरेण चतुर्विधमधरं लक्षयति - अन्य इति । अन्ये, आचार्याः, उद्वृत्तादिभेदेन अधरस्य चतुरो भेदानाहुः । उद्वत्तः, विकासी, आयतः, रेचित इति । आहत्याधरस्य Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy