SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः मन्दा तु मन्दनिःश्वासोच्छ्रासा नासाभिधीयते । सा चिन्तौत्सुक्ययोः शोके निर्वेदे च विधीयते ।। ४६८ ॥ इति मन्दा (३) विकृष्टात्यन्तमुत्फुल्लपुटा रोषार्तिभीतिषु । ऊर्ध्वश्वासे च कर्तव्या घ्रातव्ये भूरिसौरमे ।। ४६९ ॥ इति विश (४) विकूणिता संकुचिता हास्येऽसूयाजुगुप्सयोः । इति विणता (५) १६१ आकृष्टश्वसना नासा सोच्छ्वासा सौरभे भवेत् ।। ४७० ।। निर्वेदादिषु भावेषु दीर्घोच्छ्वासकरेषु च । इति सोच्छ्वासा (६) इति षोढा नासिका । इति नासाप्रकरणम् | (सु० ) मन्दां लक्षयति- मन्दा त्विति । मन्दनिःश्वासोच्छ्रासा ; अल्पनिःश्वासेन उच्छ्रासा नासा मन्दा । सा च चिन्तायाम्, औत्सुक्ये, शोके, निर्वेदे च प्रयोज्या ॥ ४६८ ॥ इति मन्दा (३) (सु० ) विकृष्टां लक्षयति - विकृष्टेति । अत्यन्तमुत्फुल्लपुटा ; अतिशयेन उत्फुल्लौ पुटौ यस्या:, तथाविधा नासा विकृष्टा । सा च रोषे, आत, भीते, ऊर्ध्वश्वासे, भूरिसौरभे; बहुपरिमले द्रव्ये घ्रातव्ये च प्रयोज्या ॥ ४६९ ॥ इति विकृश ( ४ ) (सु० ) विकूणितां लक्षयति - विकूणितेति । संकुचिता विकूणिता । साच हास्ये, असूयायाम्, जुगुप्सायां च प्रयोज्या ॥ ४६९-॥ इति विकूणिता (५) (सु० ) सोच्छ्वासां लक्षयति - आकृष्टेति । आकृष्टश्वसना नासा 21 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy