SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५० संगीतरत्नाकरः प्रदर्शनार्थमित्युक्ताः षट्त्रिंशदृष्टयो मया ॥ ४३० ॥ अनन्ताः सन्ति संदर्भाद् भूतारापुटकर्मणाम् । दृष्टयस्ता विरिश्चोऽपि प्रत्येकं वक्तुमक्षमः ॥ ४३१॥ लाघवात्तत्मबोधार्थ बमो भ्रूप्रभृतीन्यतः । इति दृष्टिप्रकरणम् । सहजा पतितोत्क्षिप्ता रेचिता कुश्चिता तथा ॥ ४३२ ॥ भ्रुकुटी चतुरा चेति प्रोक्ता धूः सप्तधा बुधैः । स्वाभाविकी स्यात्सहजा भावेष्वकुटिलेष्वसौ ॥ ४३३ ॥ इति सहजा (१) यस्याः; तथाविधा मदिरादृष्टिः मध्यमे मदे प्रयोज्या; अधोभागचारिणी ; किंचिदवलोकिततारका, निमेषवती, यत्ने कृतेऽपि असिद्धोन्मेषा; तथाविधा मदिरादृष्टि: अधमे मदे प्रयोज्येति ॥ ४२६-४२९- ॥ ___ इति त्रिविधा मदिरा (२०) इति विंशतिव्यभिचारिदृष्टयः ।। (सु०) दृष्टिप्रकरणमुपसंहरति-प्रदर्शनार्थमिति । मुग्धपरिज्ञानाय मया षट्त्रिंशदृष्टय उक्ताः । यद्यपि भ्रतारापुटकर्मणां संदर्भा अनन्ता दृष्टयः सन्ति; ता विञ्चिोऽपि प्रत्येकं वक्तुं नेष्टे । तथापि लोकवृत्त्यनुसारेण लाघवात् तत्परिज्ञानार्थम् , अतः परं भूतारादिकर्माणि कथयाम इति ॥-४३०, ४३१-॥ इति दृष्टिप्रकरणम् । (क०) अथ भ्रूभेदान् लक्षयितुमाह-सहजा पतितेत्यादि ॥ -४३२-४३४- ॥ इति सहजा (१) (सु०) अथ भ्रूभेदानाह-सहजेति । सहजा, पतिता, उत्क्षिप्ता, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy