SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४२ संगीतरत्नाकरः भरविस्फारिताकारपुटद्वन्द्वविकासिनी ॥ ४०१॥ निश्चला दृष्टिरुत्ततारका विस्मिता स्मृता । दृष्टयोऽष्टासु रत्यादिस्थायिभावेष्विमाः क्रमात् ॥ ४०२॥ ____ इति विस्मिता (८) इत्यष्टौ स्थायिभावदृष्टयः । समतारापुटा दृश्यदृष्टिशून्या विलोकिनी । निष्कम्पा धूसरा शून्या चिन्तायां दृष्टिरिष्यते ॥ ४०३ ॥ इति शून्या (१) मालोचमाना ; मीलत्तारका ; निमीलिततारका ; संकुचत्पुटा ; संकुचितपक्ष्मा; दृश्यं वस्तु दृष्ट्वा समुद्विमा उद्वेगं प्राप्ता दृष्टि: जुगुप्सिता ॥ -४००, ४००- ॥ इति जुगुप्सिता (७) (सु०) विस्मितां लक्षयति-भरमिति । भरविस्फारिताकारपुटद्वन्द्वविकासिनी; भरं अतिशयं यथातथा, विस्फारितं विस्तृताकारं पुटद्वयं यस्याः, तथाविधा विकासिनी; निश्चला; अचञ्चला ; उद्वृत्तत्तारका ; उद्वृत्ते तारके यस्याः; तथाविधा दृष्टिः विस्मिता । इमा दृष्टयः अष्टसु रत्यादिस्थायिभावेषु क्रमेण प्रयोक्तव्या इति ॥ -४०१, ४०२ ॥ इति विस्मिता (८) इत्यष्टौ स्थायिभावदृष्टयः । (सु०) अथ विंशति व्यभिचारदृष्टिं लक्षयति—समेति । समतारापुटा; समे तारके कनीनिके पुटे च यस्याः, दृश्यदृष्टिशून्या; दृश्यस्य पदार्थस्य दर्शनशून्यविलोकनं यस्याः, तथाविधा निष्कम्पा; कम्पशून्या, धूसराकारा दृष्टिः शून्या । सा च चिन्तायां प्रयुज्यते ॥ ४०३॥ इति शून्या (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy