SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः १३९ बीभत्सा स्यान्मिलल्लोलपक्ष्मा तरलतारका ॥ ३९१ ॥ दृश्योद्वेगादपाङ्गौ च निकुश्चितपुटौ श्रिता । इति बीभत्सा (७) प्रसन्ना स्निग्धशुक्लांशान्तर्वहिर्गामितारका ॥ ३९२ ॥ ईषत्कुश्चितपक्ष्मायाद्भुतापाङ्गविकासिनी । रसेष्वष्टसु शृङ्गारप्रमुखेषु क्रमादिमाः ॥ ३९३ ॥ ___ इत्यद्भुता (८) इत्यष्टौ रसदृष्टयः। रसदृष्टिर्भवेद्भावदृष्टि वैरनुल्वणैः। विकासिस्निग्धा मधुरा चतुरे बिभ्रती ध्रुवौ ॥ ३९४ ॥ (सु०) बीभत्सां लक्षयति-बीभत्सेति । मिलल्लोलपक्ष्मा ; मिलती लोले चञ्चले पक्ष्मणी यस्याम् | तरलतारका ; तरले विस्तृते तारके यस्याम् । दृश्योद्वेगात् ; दृश्योद्विग्नात् , निकुञ्चितपुटौ; निकुञ्चितौ पुटौ यस्याम् । ते अपाङ्गे श्रिता दधती दृष्टि: बीभत्सा || -३९१, ३९१- ।। इति बीभत्सा (७) (सु०) अद्भुतां लक्षयति-प्रसन्नेति । प्रसन्ना ; गम्भीरा; स्निग्धः, मसृणः, शुक्ल:, शुभ्रः ; अंश अपाङ्गो यस्याः; अन्तबेहिर्गा मितारका ; अन्तर्बहिश्च, निर्याता तारका यस्याः ; ईषत्कुञ्चितपक्ष्माना ; ईषत् किंचित् कुञ्चितं नमनं प्रापितं पक्ष्मणोरग्रं यस्याः; अपाङ्गविकासिनी ; कटाक्षे विकास प्रापितः यस्याः, तथाविधा दृष्टिः अद्भुता । इमा दृष्टयः क्रमात् शृङ्गारप्रमुखेषु अष्टसु रसेषु प्रयोक्तव्या इति ॥ -३९२, ३९३ ॥ ___ इत्यदुता (८) इत्यष्टौ रसदृष्टयः। (सु०) अथ स्थायिदृष्टीनां लक्षणमाह-रसदृष्टिरिति । पूर्वोक्तरसदृष्टिरेव Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy