SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १२६ संगीतरत्नाकरः पृष्ठं तु जठरोक्ताभिर्वर्तनाभिर्विवर्तते । अतो न तत्पृथग्वाच्यं जठरं तूच्यतेऽधुना ॥ ३५३ ।। क्षामं खल्लं तथा पूर्ण त्रेधा जठरमिष्यते । क्षामं स्यान्नमनाज्जृम्भाहास्यनिश्वासरोदने ॥ ३५४ ॥ ___ इति क्षामम् (१) निम्नं खल्लं क्षुधार्ते स्यादातुरे श्रमकर्शिते । वेतालभृङ्गिरिट्यादिजठराकारधारि तत् ॥ ३५५ ॥ . इति खल्लम् (२) पूर्ण स्थूलं व्याधिते स्यात्तुन्दिलेऽत्यशिते तथा । ___इति पूर्णम् (३) अन्येऽन्वर्थ रिक्तपूर्ण श्वासरोगेऽपरं जगुः ॥ ३५६ ॥ इति रिकपूर्णम् (४) इति चतुक़दरम् । (क०) अथ पृष्ठोदरयोः प्रभेदान् लक्षयितुमाह-पृष्ठं वित्यादि। जठरोक्ताभिवर्तनाभिर्विवर्तत इति । जठरं क्षामं चेपृष्ठमक्षामं भवति । जठरं खलं चेत्पृष्ठं पूर्ण भवति । जठरं पूर्ण चेत् पृष्ठं खलं भवति । जठरस्य रिक्तपूर्णत्वे पृष्ठस्य पूर्णरिक्तत्वमित्यर्थः ॥ ३५३-३५६ ॥ इति रिकपूर्णम् (४) इति चतुर्धेदरम् । (सु०) पृष्ठोदरयोर्लक्षणमाह-पृष्ठं त्विति । जठरोक्तव्यापारैरेव पृष्ठ विवर्तते, व्यापारवद्भवति । अत: तत् पृथङनोच्यते । अधुना जठरं निरूप्यते । जठरं त्रिविधम् ; क्षामम् , खल्लम् , पूर्णमिति । तेषां लक्षणमाह-क्षामं Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy