SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः वलनं यत्र निर्दिष्टं स्वस्तिकाश्लेषचालनम् ॥ इति स्वस्तिकाश्लेषचालनम् (११) एको हस्तः परस्यांसपर्यन्तं सरलोन्नतः । निवृत्तश्चेत्स्वपार्श्वे स्यात्पर्यायाद्दत्तमण्डलम् ॥ मिथःसमीक्ष्य बाह्यं तद्गदितं नामतो बुधैः । ___ इति मिथ:समीक्ष्यबाह्यम् (१२) सव्यापसव्ययोस्तिर्यग्लुठनं स्वस्तिकात्मना ।। करयोर्यत्र विद्युत निर्दिष्टं तच्च तण्डुना । वामदक्षतिरश्चीनं तच्चाप्यन्वर्थसंज्ञि तत् ।। इति वामदक्षविलासितम् (१३) कटीक्षेत्रगतश्चैकः स्यान्चेदन्यः पुरोगतः । अथ तौ केशपर्यन्तं लुठतो यत्र लीलया ॥ मौलिरेचितकं प्रोक्तं तज्ज्ञैर्नयनसुन्दरम् । इति मौलिरेचितकम् (१४) कर्णभागगतश्चैकः परश्चेद्वर्तितो भवेत् ॥ उत्सारितोद्वेष्टितकैर्वर्तनाभरणं तु तत् । ___इति वर्तनाभरणम् (१५) वामदक्षिणकावौं मूनों वा युगपत्क्रमात् ॥ ऊर्ध्वाधोमण्डलाकारभ्रान्तौ स्वस्तिकगौ पुनः । वर्तनास्वस्तिकौ पार्श्वद्वये मण्डलघूर्णितौ ।। अभिमण्डलसंपूर्णी यदा तु लुठतः करौ । आदिकूर्मावतारं तद्रेचकज्ञाः प्रचक्षते ॥ इत्यादिकूर्मावतारम् (१६) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy