SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०८ संगीतरत्नाकरः पार्श्वमण्डलिनोः पाण्योर्धमणं स्वस्वपार्श्वयोः । क्रमादेकैकपाधै वा कक्षवर्तनिकां जगुः ॥ इति कक्षवर्तनिका (१३) उरोवर्तनिकां विद्यादुरोमण्डलिनोः क्रियाम् । ___ इत्युरोवर्तनिका (१४) एकस्याकुञ्चितो मुष्टिः खटकास्योऽश्चितः परः ॥ इति कीर्तिधरस्त्वाह मुष्टिकस्वस्तिकौ करौ । खड्गवर्तनिकेत्येतन्नामधेयं त्वकल्पयत् ॥ इति खडगवर्तनिका (१५) पद्मकोशाभिधौ हस्तौ व्यावृत्तादिक्रियान्वितौ । आश्लिष्टौ स्वस्तिको क्षेत्रे व्यावृत्तपरिवर्तितौ ।। मिथः पराङ्मुखौ सन्तौ नलिनीपद्मकोशकौ । एतौ कीर्तिधराचार्याः पद्मवर्तनिकां जगुः ॥ यद्वा स्वस्तिकाकुश्चितौ हस्तौ व्यावृत्तपरिवर्तितौ । मिथः पराङ्मुखौ सन्तौ सैषा कमलवर्तना ॥ ___ इति पद्मवर्तना (१६) वक्षःक्षेत्रं श्रयत्येको येन कालेन पार्श्वतः । व्यावृत्त्या हंसपक्षाख्यस्तेनैव परिवर्तितः ।। प्रसारितभुजोऽन्यस्तु तिर्यकार्या पराः पुनः । एवमङ्गान्तरेणापि क्रिया स्याद्दण्डपक्षयोः ॥ दण्डवर्तनिकामेनां भट्टतण्डुरभाषत । इति दण्डवर्तना (१७) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy