________________
संगीतरत्नाकरः अथ क्रमाल्लक्षणमुच्यते
सव्यापसव्यव्यत्यासा भ्रान्तिरा मणिबन्धतः ।। क्रियते चेत्पताकस्य सा पताकाख्यवर्तना ।
इति पताकवर्तना (१) तर्जन्याद्यगुलीनां यदन्तरावेष्टनं क्रमात् ॥ आवेष्टितक्रियापूर्व सा प्रोक्तारालवर्तना।
इत्यरालवर्तना (२) अवहित्थः करो वक्षस्याविद्धाधोमुखः कृतः ॥ ऊरुपृष्ठे वर्तितश्चेच्छुकतुण्डाख्यवर्तना ।
___ इति शुकतुण्डवर्तना (३) अभ्यन्तरे कनिष्ठाया वर्तन्तेऽगुलयः क्रमात् ।। व्यावर्तित क्रिया यत्र सालपद्मस्य वर्तना।
इत्यलपद्मवर्तना (1) खटकामुखयो मिक्षेत्रे सव्यापसव्यतः ।। मणिबन्धावधिभ्रान्तिः खटकामुखवर्तना ।
इति खटकामुखवर्तना (५) यदा तु मकरो हस्तः पुरस्तात्पार्श्वयोरपि ॥ व्यावय॑ते बहिश्चान्तस्तदा मकरवर्तना ।
इति मकरवर्तना (६) यदोद्धृतौ नृत्तहस्तादूर्ध्वदेशेन वर्तितौ ।। तदो+वर्तना नाम वर्तनाविद्भिरीरिता ।
इत्यूर्ध्ववर्तना (७)
Scanned by Gitarth Ganga Research Institute