SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः उन्नतोर्ध्वानता ग्रीवालंकारोर्ध्व प्रदर्शने । इत्युन्नता ( ९ ) अथ बाहुभेदा: ऊर्ध्वस्थोऽधोमुखस्तिर्यगपविद्धः प्रसारितः ।। ३३५ ।। अञ्चितो मण्डलगतिः स्वस्तिको द्वेष्टितावपि । पृष्ठानुसारीत्युदितो बाहुर्दशविधो बुधैः ।। ३३६ ।। आविद्धः कुञ्चितो नम्रः सरलान्दोलितावपि । उत्सारित इति प्राहुर्वाहून्षडपरान्परे ।। ३३७ ।। शीर्षादूर्ध्वं व्रजन्वारूर्ध्वस्थस्तुतदर्शने । इत्यूर्ध्वस्थः (१) (सु०) उन्नतां लक्षयति — उन्नतेति । उर्ध्वानता ग्रीवा उन्नता । सा च अलंकारेण ऊर्ध्वप्रदर्शने प्रयुज्यते ॥ ३३४ - ॥ ९९ इत्युत्रता ( ९ ) इति नवविधा ग्रीवा । इति श्रीवाप्रकरणम् -३३५-३३८- ॥ (क) अथ बाहुभेदानुद्दिशति - ऊर्ध्वस्थोऽधोमुख इत्यादि ॥ (सु०) बाहुभेदानाह - ऊर्ध्वस्थ इति । ऊर्ध्वस्थः, अधोमुख, तिर्यगपविद्ध:, प्रसारितः, अञ्चितः, मण्डलगतिः, स्वस्तिकः, उद्वेष्टितः, पृष्ठानुसारीति दशाविधो बाहु: । मतान्तरमाह - आविद्ध इति । आविद्ध:, कुञ्चितः, नम्रः, सरल:, आन्दोलितः, उत्सारित इत्यन्यदपि बाहुषटकं परे प्रोचुः । क्रमेण लक्षणमाह - शीदिति । शीर्षात् ऊर्ध्वं गतो बाहु: उर्ध्वस्थः । स च तुङ्गदर्शने प्रयोज्यः ॥ - ३३५-३३७- ॥ यूथ : (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy