SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ८८ संगीतरत्नाकरः निम्नं शिथिलमाभुग्नं वक्षः स्याद्र्वलज्जयोः ॥ २९८ ॥ शीतहच्छल्ययोः शोके मूर्छाभीसंभ्रमेषु च। . कार्य व्याधौ विषादे च ब्रूते शंकरकिंकरः ॥ २९९ ॥ इत्याभुग्नम् (२) निर्भुग्नं निम्नपृष्ठत्वादुन्नतं स्तब्धमप्युरः । माने च सत्यवचने स्तम्भे विस्मयवीक्षिते ॥ ३०० ॥ 'प्रकृष्टभाषणे गर्वोत्सेके चेदं प्रयुज्यते । इति निर्भुमम् (३) प्रकम्पितं कम्पितं स्यादूर्ध्वक्षेपैनिरन्तरैः ॥ ३०१॥ स्यागीहासश्रमश्वासकासहिकासु रोदने । ___ इति प्रकम्पितम् (४) चतुरश्राङ्गं संश्रय अङ्गविन्यासो यस्य तथाविधं वक्षः प्रकृतिस्थम् , स्वाभाविकं सममित्युच्यते ॥ -२९६, २९७- ॥ इति समम् (१) (सु०) आभुग्नं लक्षयति--निम्नमिति । निम्नमुन्नतम् , शिथिलं वक्ष अभुग्नम् । तच्च गर्वे, लजायाम् , शीते, हृच्छल्ये, शोके, मूर्छाभीतिसंभ्रमादिषु, व्याधौ, विषादे च प्रयुज्यते ॥ -२९८, २९९ ॥ इत्याभुमम् (२) ___ (सु०) निर्भुग्नं लक्षयति—नि ममिति । निम्नपृष्ठत्वात् उन्नतमुरो निर्भुग्नम् । तच्च माने, सत्यवचने, स्तम्भे, विस्मयवीक्षिते, प्रकष्टभाषणे, गर्वाधिक्ये च प्रयुज्यते ॥ ३००, ३००- ॥ इति निर्भुमम् (३) (सु०) प्रकम्पितं लक्षयति-प्रकम्पितमिति । निरन्तरैः ऊर्ध्वप्रक्षेपैः प्रहर्षभाषणे इति पाठः। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy