SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्याय: ८५ अल्पो हस्तप्रचारः स्यात्प्रत्यक्षे भूरिसात्त्विके ।। २९१ ॥ परोक्षे प्रचुरः स स्यान्मध्यमे मध्यमो मतः । कार्याः सुव्यक्तलक्ष्माणः पात्रैरुत्तममध्यमैः ।। २९२ ।। ससौष्ठवाच नीचैस्तु पाणयस्तद्विलक्षणाः । विषण्णे व्याकुले भीते मूर्च्छिते तन्द्रयान्विते ।। २९३ ॥ ( क ० ) अथ हस्तप्रचारस्याल्पमचुरमध्यमत्वव्यवस्थां विषयभेदेन दर्शयति – अल्पो हस्तप्रचारः स्यादित्यादि । प्रत्यक्षे; साक्षादनुभूयमानेऽर्थे, भूरिसात्त्विके प्रभूतसात्त्विके भावे वा अभिनेतव्ये हस्तप्रचारोऽल्पः कर्तव्यः स्यात् । परोक्षे; अप्रत्यक्षेऽर्थेऽभिनेतव्यं, सः; हस्तप्रचारः प्रचुरः कर्तव्यः स्यात् । मध्यमे ; किंचित्प्रत्यक्षत्वेन किंचिदप्रत्यक्षत्वेन च स्थितेऽर्थेऽभिनेतव्ये मध्यमो नात्यल्पो नातिप्रचुरः प्रचारः कर्तव्योऽभिमतः । भूरिसात्त्विक इत्यनेनैवाल्पसात्त्विकेऽप्रचुरः । मध्यमसात्त्विके मध्यमः प्रचार इत्यवगन्तव्यम् ॥ २९०, २९१- ॥ (क०) अभिनेतृविषयामन्यां व्यवस्थां दर्शयति-कार्याः सुव्यक्तलक्ष्माण इति । उत्तममध्यमैः पात्र राजपुरोहिताद्यनुकारकैः पात्रैः । सुव्यक्तलक्ष्माणः ; शास्त्रे यस्य हस्तस्य यल्लक्षणमुक्तं तत्सम्यक्कृतं चेत्सुव्यक्तं भवति । सुव्यक्तं लक्ष्म येषां ते तथोक्ताः । ससौष्ठवाचेति; 'कटी जानुसमा यत्र कूर्परांस शिरः समम् । उरः समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् ' ॥ इति वक्ष्यमाणलक्षणेन सौष्ठवेन सहिताः ससौष्ठवाः । नीचैस्त्विति । दौवारिकादिभिर्नीचपात्रैस्तु, तद्विलक्षणा इति । अव्यक्तलक्षणा असौष्ठ - वाश्चेत्यर्थः । उत्तमादितारतम्येन पात्राणि योजयेदित्यभिप्रायः । केषुचिद Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy