SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८० संगीतरत्नाकरः मुष्टिकस्वस्तिक मूर्ध्नि विवृत्तौ तौ परे विदुः । अन्ये त्वाचक्षतेऽन्योन्यलग्नाग्रैौ खटकामुखौ || २८१ ॥ ऊर्ध्व पृष्ठतो नम्रकूर्परौ वलितौ मतौ । नृत्तहस्तौ क्रमेणापि प्रयोज्यौ सूरयो विदुः ।। २८२ ॥ इति वलितौ (३०) इति त्रिंशन्नृहस्ताः | पताको मध्यमामूललग्नाङ्गुष्ठौ निकुञ्चकः । स स्वल्पाभिनये वेदाध्ययने च प्रयुज्यते ॥ २८३ ॥ इति निकुञ्चक: (असंयुतहस्तः ) ( १ ) शिखरद्वन्द्वसंयोगात्करोद्विशिखरो मतः । ऊर्ध्वप्रदेशे विवृत्तौ मुष्टिकस्वस्तिकौ वलितावित्याहुः । अन्यन्मतमाह— अन्ये त्विति । अन्ये; आचार्यास्तु एवमाचक्षते -- अन्योन्यसंलग्ना प्रौ खटकामुखौ ऊर्ध्वगौ ऊर्ध्वप्रदेशकृत्तौ पृष्ठतः नम्रकूर्परौ वलितौ भवेतामिति । एतौ नृत्तहस्तौ क्रमशः प्रयोजनीयाविति सूरय आहुः ॥ -२८०-२८२ ॥ इति वलितौ (३०) इति त्रिंशन्नृहस्ताः । ( सु० ) मतान्तरोक्तानां निकुञ्चकादीनां लक्षणमाह-पताकेति । मध्यमामूललग्नाङ्गुष्ठ: ; मध्यमाया अड्गुलेः मूले लग्न अङ्गुष्ठो यस्य, तथाविधः पताको निकुञ्चक: । अस्य विनियोगस्तु सः; निकुञ्चः, स्वल्पाभिनये वेदाध्ययने च कार्यः ॥ २८३ ॥ इति निकुचक: ( असंयुत हस्त:) (१) (सु० ) द्विशिखरं लक्षयति-शिखरेति । पूर्वोक्त शिखर द्वन्द्वसंयोगात् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy