________________
७०
संगीतरत्नाकरः
करिहस्ताकृतिस्त्वेको दृश्यतेऽत्र लताकरः । इतिकर्तव्यता त्वन्या स्यादेकवचनं ततः ।। २५२ ॥ न चात्र करिहस्तत्वमेकैकत्र घटत्ववत् ।
न चात्रैः करीहस्त शब्दवाच्योऽपरः करः ।। २५३ ।। नैकशेषो न च द्वन्द्वो यतो द्विवचनं भवेत् । आश्रितं चैकवचनं मुनिना सर्वदर्शिना ।। २५४ || इति करिहस्तः (१६)
चतुरश्रश्च चतुरश्राविति यथा तथोद्वृत्तादिषु द्विवचनमेकशेषेण कृतमित्यर्थः । यौ वा करौ विजातीयौ विविधजातीयौ भिन्नशब्दवाच्यावित्यर्थः । तयोः करयोर्घटपटौ यथा स्यातां तथा अरालखटकामुखाविति द्विवचनं द्वन्द्वेन भवेदिति भावः ।
प्रकृते द्वन्द्वैकशेषयोरभावं दर्शयितुमाह- करिहस्ताकृतिस्त्वेक इति । द्वितीयस्य करस्य क उपयोग इत्याकाङ्क्षायामाह - इतिकर्तव्यता त्वन्येति । अन्येति क्रियापरत्वेन स्त्रीलिङ्गत्वम् । अन्या द्वितीया करक्रिया | इतिकर्तयताङ्गमित्यर्थः । एकस्मिन्करे करिहस्ताकृतौ कृते सति ततो द्वितीयस्य खटकामुखस्य त्रिपताकस्य वा कर्णाभ्यर्णस्थितिः करिकर्णानुकरणेन करिहस्तस्यैवोपकारिकेति तदङ्गत्वम् । ततः कारणादेकवचनमेव स्यादिति निगमनम् । एवमनभ्युपगच्छन्तं प्रत्याह-न चात्रेति । प्रतिपादितेऽर्थे संमतिं दर्शयन्नाह - आश्रितमिति । यथाह मुनि:
""
'समुन्नतो लताहस्तः पश्चात्पार्श्वविलोलितः ।
त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥
99
इति ॥ २४८-२५४ ॥
इति करिहस्तः (१६)
Scanned by Gitarth Ganga Research Institute