SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६४ संगीतरत्नाकरः मध्यमासंगतागुष्ठौ चतुरश्रप्रदेशगौ । सर्पशीर्षों क्रमात्तिर्यक्रसरन्तौ प्रदेशिनीम् ॥ २३२ ॥ बहि प्रसारितां धत्तो यदा सूचीमुखौ तदा । पताको प्रथमं कायौं व्याहत्तपरिवर्तितौ २३३ ॥ भ्रान्त्वा प्रसारणं चात्र विशेष केचिदूचिरे । मध्यप्रसारितागुष्ठौ सर्पशीर्षाकृती करौ॥ २३४ ॥ रेचितस्वस्तिको केचिदूचुः सूच्यास्यलक्षणम् । इति सूच्यास्यौ (6) संभ्रमः । तेन वलनं वक्रतया गमनम् ; तस्मिन् ॥ २३०, २३१ ॥ ___ इत्याविद्धवक्त्रौ (७) (सु०) आविद्धवक्त्रयोर्लक्षणमाह--भुजाप्रयोरिति । भुजाग्रेषु कूर्परांसेषु सविलासेषु सक्तौ द्वौ पताको करौ व्यावृत्ति विधाय, यदि अधस्तले भवेतां तदा आविद्धवक्त्रौ हस्तौ उदितौ । कृतिनः नृत्तशास्त्रज्ञाः, तयोः विक्षेपवलने; विक्षेपेण संभ्रमेण कार्यव्यग्रतया वलने गमने प्रयोग इत्याहुः ॥ २३०, २३१ ॥ इत्याविद्धवक्त्रौ (७) (क०) सूच्यास्ययोलणे-चतुरश्रपदेशगाविति । अत्र चतुरश्रयोः प्रदेशो वक्षसोऽष्टाङ्गुलान्तरो वक्षःपुरोदेशः । तत्र गताविति तथोक्तौ । सर्मशीर्षों कमात्स्वयं तिर्यक्प्रसरन्तौ बहिःप्रसारितां प्रदेशिनीं यदा धत्तस्तदा सूचीमुखावित्यन्वयः ॥ २३२-२३४- ।। ___इति सूच्यास्यौ (6) (सु०) सूच्यास्ययोर्लक्षणमाह-मध्यमेति । मध्यमया संगतौ संलग्नौ, अङ्गुष्ठौ ययोः, तथाविधौ चतुरश्रप्रदेशगौ सर्पशीर्षों, क्रमात् तिर्यक् प्रसरन्तौ बहिःप्रसारितां प्रदेशिनी यदा धत्तः, तदा सूच्यास्यौ भवतः । मतान्तरेण Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy