SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६१ सप्तमो नर्तनाध्याय: अश्लिष्टहंसपक्षाभ्यां स्वस्तिकः स्वस्तिकौ करौ ॥ २२२ ॥ इति स्वस्तिकौ (४) विप्रकीर्णौ तु तावेव सहसा स्वस्तिके च्युते । नीचाग्रावुन्नतायौ वा कुचाभ्यां पुरतः स्थितौ ।। २२३ ।। पराङ्मुखौ हंसपक्षौ विप्रकीरें जगुः परे । इति विप्रकीर्णो (५) पताकस्वस्तिकं कृत्वा व्यावृत्तिपरिवर्तने ॥ २२४ ॥ तत: त्र्यश्री विषमौ स्थितौ यौ, तौ हंसपक्षौ परस्परसंमुखतलौ जातौ चेत् , तदा तलमुखौ भवतः । अनयोविनियोगमाह-बुधैरिति । बुधैः, तौ तलमुखौ मधुरे मर्दलध्वनौ ; मृदङ्गनादे प्रयोगमभिदधाते ॥ २२१, २२१- ॥ इति तलमुखौ (३) (सु०) स्वस्तिकयोर्लक्षणमाह--अश्लिष्टेति । अश्लिष्टाभ्याम् असंयुक्तहस्तकाभ्यां पूर्वोक्तः स्वस्तिकः कृतश्चेत्, तदा स्वस्तिकाख्यौ हस्तौ भवतः ॥ -२२२ ॥ इति स्वस्तिकौ (1) (सु०) विप्रकीर्णयोर्लक्षणमाह-विप्रकीर्णाविति । तावैव स्वस्तिको सहसा च्युतौ सन्तौ विप्रकीर्णावित्युच्यते । मतान्तरेणान्यथा लक्षयतिनीचाप्राविति । नीचमनं ययोः, तथाविधौ उन्नतायौ यदा कुचाभ्यां पुरस्तात् विद्यमानौ हंसपक्षौ पराङ्मुखो असंमुखौ चेत्, विप्रकीर्णावित्यन्ये अवादिषुः ॥ २२३, २२३- ॥ इति विप्रकीर्णो (५) । (क०) अरालखटकामुखयोर्लक्षणे- पताकस्वस्तिकं कृत्वेति । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy