________________
पणमस्तालाध्यायः
ध्रुवपातमपातं वा तद्गुरुत्रयमादिमम् ॥ ६२ ।। शद्वयं ताद्वयं शम्ये तालौ च द्विः शतौ च सम् । क्रमाद्लेषु शेषेषु तस्य स्यात्पातकल्पना ॥ ६३ ॥ एवं वस्तुत्रयं गीत्वा शीर्षकं तु प्रयुज्यते । चतुष्कलेनैककलेनाथवा पश्चपाणिना ॥ ६४ ॥ आये वस्तुनि कर्तव्यं गुरुद्वयमुपोहनम् ।
गुरुणागुरुणा कार्य शेषयोः प्रत्युपोहनम् ॥ ६५ ॥ जातावेकवचनम् । तेनापरान्तकादिप्वपि स्थितानां वस्तूनामुक्तप्रकारेण न्यासः कर्तव्य इत्यर्थः ॥ ६१- ॥
(सु०) एवं मद्रकस्य भेदान् परिभाषां चोक्त्वा एककलमद्रकं लक्षयति --गुरूणीति । एककलमद्रके अष्टौ गुरवः ; अष्टौ लघवश्च ; एक वस्तु । सर्वेषां गीतानां साधारणवस्तुलक्षणमाह-स्वगगेति । यो रागः गीते तस्य योनिः कारणभूता या जाति: तस्या जातेया॑सः ; स्वरे न्यासः, स्वरे अंशस्वरे वा सर्वेषु गीतेषु मद्रकादिषु वर्तमानस्य वस्तुनो न्यासः समाप्तिः ॥ ६१-॥
(क०) आदिमं तद्गुरुत्रयमिति । तस्य वस्तुनः गुरुत्रयमष्टसु गुरुष्वादिमं गुरुत्रयं ध्रुवपातम् ; ध्रुवः पातोऽस्यास्तीति तथोक्तम् । ध्रुवाख्यया सशब्द क्रियया योजनीयमित्यर्थः । अपातं वेति । पातादन्यया क्रियया युक्तमिति गम्यते । तेन निःशब्द क्रियया युक्तं वा कर्तव्यमित्यर्थः । शद्वयमित्यादि । चतुर्थपञ्चमयोप्वोः शम्याद्वयम् | ताद्वयमिति । षष्ठसप्तमयोगुर्वोस्तु तालद्वयम् । शम्येति । अष्टमस्य गुरोः, नवमस्य लघोश्च प्रत्येकं शम्या। तालाविति । दशमैकादशयोर्ल वोः प्रत्येक तालौ । द्विः शतौ चेति । द्वादशत्रयोदशयोर्लध्वोः शम्यातालौ । तथा चतुर्दशपञ्चदशयोश्च लघ्वोः शम्यातालौ । समिति । षोडशे लघौ संनिपात इति क्रमात् गलेषु शेषेषु तस्य पातकल्पना स्यादित्यर्थः ॥ ६२-६५ ॥
Scanned by Gitarth Ganga Research Institute