________________
पश्चमस्तालाध्यायः
२५
इति । क्रियानन्तरमविच्छेदेन क्रियान्तरं प्रवर्तते चेत् ; तदा विश्रान्त्यभावात् लयो नास्त्येव । यथा गुर्ववयवयोः लध्वोरन्तराले । यथा वा प्लुतावयवानां लघूनामन्तरालयोः, तस्मात् तालान्तरालेषु च लयः कर्तव्यः । तत्र यस्मिन् सति क्रियाविच्छेदो दृश्यते ; असति न दृश्यते ; एवं क्रियाविच्छेदान्वयव्यतिरेकानुविधायी यः स शीघ्रतमः ; स एव द्रुतलय इत्यर्थः । द्विगुणद्विगुणावित्यादि । तस्मात् द्रुतलयात् द्विगुणो विश्रान्तिकालो मध्यलयः । तस्मात् मध्यलयात् द्विगुणो विश्रान्तिकालो विलम्बितलयः । एवमेककलादिप्वेककस्मिन् मार्गे विश्रान्तिकालप्रमाणभेदात् लयत्रयं दर्शितम् । यथा लोक एकस्मिन्नेव मार्गे त्रयोऽपि गन्तुं प्रवृत्ताः । तत्रैको धावति तस्य गतिः शीघ्रा भवति । ततो मन्दमन्यो गच्छति तस्य गतिमध्यमा भवति । ततोऽपि मन्दमपरो याति तस्य गतिविलम्बा । एवं पादन्यासक्रियाविश्रान्तिकालवैषम्यात् गतिभेदः । तथा ताले लयभेदो द्रष्टव्यः । मार्गभेदादित्यादि । चिरक्षिप्रमध्यभावैरिति । दक्षिणमार्गे चिरभावः ; चित्रमार्गे क्षिप्रभावः ; वार्तिकमार्गे मध्यभावः ; तैः लयोऽनेकधा भवति । तथाहि ; चित्रमार्गे दशलध्वक्षरोच्चारमितकालानन्तरं यो लयो भवति, स द्रुत इत्युच्यते । वार्तिकमार्गे पूर्वोक्तक्रमेण कलाद्वयानन्तरं यो लयो भवति, स मध्य इत्युच्यते । दक्षिणमार्गे तादृशकलाचतुष्टयानन्तरं यो लयो भवति, स विलम्बित इत्युच्यते । विश्रान्तिकालस्यैकरूपत्वेऽपि तत्तक्रियाप्रमाणोपलक्षितमार्गभेदतो लयभेदोऽवगन्तव्यः । यथा लोक एकस्यैव ग्रामस्य गङ्गां प्रति मार्गत्रये सति तत्र संनिहितेन मार्गेणागतः शीघ्रमागत इत्युच्यते । ततोऽपि द्विगुणदूरेण मार्गेणागतः पूर्वापेक्षया मध्यभावेनागत इत्युच्यते । ततोऽपि द्विगुणदरेण मार्गेणागतः पूर्वोत्तरापेक्षया विलम्ब्यागत इत्युच्यते । एवं गमनक्रियावैषम्याभावेऽपि मार्गभेदात् द्रुतादिव्यवहारः । तथा प्रकृतेऽपि । तत्रापि प्रतिमार्ग विश्रान्तिकाल
Scanned by Gitarth Ganga Research Institute