SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः ४९९ वाञ्छानुगौ दृढौ व्यक्तौ स्निग्धौ दृढनखौ लघू ॥ १२१८ ॥ विधायागुलिसंचारौ स्वेदहीनौ जितश्रमौ । युक्तमहारौ च करौ प्रोक्तौ दशगुणाविति ॥ १२१९ ॥ इति हस्तगुणा: इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्क शार्ङ्गदेवविरचिते संगीतरत्नाकरे वाद्याध्यायः षष्ठः समाप्तः । णज्ञः । एतैर्गुणैर्युक्तो वादको वर उत्तमः । कतिपयैः अल्पैर्गुणैर्युक्तो हीनो वा मध्यमः । सर्वैर्गुणैर्हीनोऽधम इति ॥ -१२१३-१२१७- ॥ इति वादकगुणदोषा: (क०) वादकस्य करयोर्गुणानाह-वाञ्छानुगावित्यादि । -१२१८, १२१९ ॥ इति हस्तगुणाः अनवद्यगुणः कल्लिनाथो वाद्यविभागवित् । वाद्याध्यायस्य विवृतिमकरोन्निजविद्यया । इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमल्लश्रीलक्ष्मणाचार्यनन्दनचतुर कल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ षष्ठो वाद्याध्यायः (सु०) हस्तगुणानाह-वाञ्छानुगाविति । वाञ्छानुगौ ; चेतोवाञ्छितवादकौ, विधेय: अधीनः अङ्गुलिसंचारो ययोः ॥ -१२१८, १२१९ ॥ इति हस्तगुणाः इति श्रीदन्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां संगीतसुधाकराख्यायां षष्ठो वाद्याध्यायः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy