________________
४७४
संगीतरत्नाकरः यो धत्ते सप्त सप्तापि रन्ध्राणि वलयद्वये ॥ १०९१ ॥ तथा कवलयोस्ताभ्यां तुण्डे वलयसंयुते । पिधाय गाढं बध्येते रन्ध्रविन्यस्तदोरकैः ॥ १०९२ ॥ यस्यासौ ढवसः प्रोक्तः शाङ्गदेवेन सूरिणा। स्कन्धे निक्षिप्य कच्छान्तं वामहस्तेन वादयेत् ॥ १०९३ ।। वामास्ये दक्षिणस्थेन कुडुपेन तु दक्षिणे। ढंकारपाटवर्णैश्च रूढोऽयं ढवसो जने ॥ १०९४ ॥
इति ढवसलक्षणम् व्याख्याता ढवसेनैव ढक्का किंतु मुखद्वयम् । त्रयोदशाङ्गुलं तस्या धृत्वा तां वामपाणिना ॥ १०९५ ॥ तज्ज्ञो दक्षिणहस्तस्थकोणघातेन वादयेत । ढेंकारः पाटवर्णाः स्युनिःशङ्केनेति कीर्तितम् ॥ १०९६ ।।
इति ढकालक्षणम् प्रमाणेन च सहित: सनवत्रिंशदगुल: एकोनचत्वारिंशदगुल इत्यर्थः । यश्च वल्लीवलयसंयुते द्वादशाङ्गुलप्रमाणे द्वे मुखे धत्ते, वलयद्वये च सप्त सप्त रन्ध्राणि धत्त इति । यस्य च वलयः तुण्डे मुखे वलयेन संयुक्ते ताभ्यां वलयाभ्यामाच्छाद्य रन्ध्रविन्यस्तैः दोरिकैः यस्य गाढं बध्येते, असौ ढवस इति । स्कन्ध इति । स्कन्धे कच्छान्तं प्रान्तं निक्षिप्य, वामहस्तेन वादयेत् वामास्ये, दक्षिणास्ये तु दक्षिणहस्तस्थेन कोणेनेति ॥ -१०९०-१०९४ ॥
इति ढवसलक्षणम् (सु०) ढक्कां लक्षयति-व्याख्यातेति । ढवसोक्तलक्षणेनैव ढक्का व्याख्याता । अयं तु विशेष:-मुखद्वयं त्रयोदशाङ्गुलमिति ॥ १०९५-१०९६ ॥
इति ढकालक्षणम
Scanned by Gitarth Ganga Research Institute