SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः तद्वन्दं द्वित्रिचतुरैस्तज्ज्ञैर्मर्दलधारिभिः । प्राधान्येन विधातव्यं तैर्मुखर्यनुवर्तनम् ॥ १०६७ ।। इति मार्दलिकवृन्दम या हस्तसंमिता दैयेऽष्टाविंशत्यगुला पुनः । परिधावगुलमिता पिण्डे सप्ताङ्गुले मुखे ॥ १०६८ ।। मण्डल्यौ वक्त्रयोर्वल्लीमध्यावेकादशाङ्गुले । सपादाङ्गुलकस्थौल्ये उद्दलीकृतबन्धने ॥ १०६९ ।। वदनाभ्यां सह स्यातां कुर्याद्रन्ध्राणि षट् तयोः । बद्धरज्जुनिवेशार्थ पुरोभागेऽर्गलात्रयम् ॥ १०७० ॥ कलशाकलितद्वयन्तं पश्चाद्भागेऽर्गलाद्वयम् । बन्धसूत्रान्तरे मध्ये भवेदुदरपट्टिका ।। १०७१ ।। अगुलत्रयविस्तारा लक्ष्णा हृदयहारिणी। द्वात्रिंशत्तन्तुसंजातरज्ज्वा पक्षद्वयं दृढम् ॥ १०७२ ॥ (क०) अथ मार्दलिकवृन्दं लक्षयति-तद्वन्दमिति । तेषां मार्दलिकानां वृन्दं समाजः ॥ १०६७ ॥ इति मार्दलिकवृन्दम् (सु०) मार्दलिकवृन्दं लक्षयति- तबृन्दमिति । द्वाभ्यां त्रिभिश्चतुर्भिर्वा मृदङ्गधारकैः बृन्दं भवति । तैश्च प्राधान्यात् पूर्वलक्षितो मुखर्यनुसर्तव्यः ॥ १०६७॥ ___ इति मार्दलिकवृन्दम् (क०) अथ हुडुक्कां लक्षयति-या हस्तसंमितेत्यादि । मझेंकाराविति । अत्र हुडुक्कायां मकारोकारौ पाटहेभ्यो वर्णेभ्योऽधिकावुक्तौ । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy