SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४४० संगीतरत्नाकर: एकताल्यां द्रुते 'माने नर्तनारम्भगोचरे ॥ ९७७ ॥ समं च करटाटीपिकाहलावादने सति । अभ्यस्तो वाद्यखण्डोऽल्पः कूटेनैकेन निर्मितः ॥ ९७८ ॥ तद्धीमिति च्छण्डान्तः स्मृतो मेलापको बुधैः । विद्यावन्तः स्वसमये प्राहुर्मेलापनीमिमाम् ॥ ९७९ ॥ वर्णानां टिरित्येषामावृत्तिष्टीपिरुच्यते । यथा- - थोंगटे गड्दनं योंगटे । इति यावत्प्रबन्धपूर्ति पुन:पुनर्वादनीयम् । तद्धमिति । इति च्छण्डणः, इति मेलापकः । इति मेलापक: (सु० ) पदं लक्षयति - उमाह इति । अल्प उद्ग्राहः, धुवश्च नात्यन्तदीर्घः शुद्धपाटादिभिर्निर्मितः ; वर्णसरेण वा अन्ते छण्डणः तदा पदमित्युच्यते । मतान्तरेणान्यथा लक्षयति - वादयित्वेति प्रबन्धस्य पूर्वोक्तयति वादयित्वा पाटेन यत्र विमुक्तिः तत्पदम् ॥ ९७५-९७६- ॥ इति पदम् (६) (क० ) अथ मेलापकं लक्षयति - एकताल्यामिदि । दुते माने नर्तनारम्भगोचरे नृत्तारम्भविषये । समम्; एककालम् । करटाटीपिकाइलावादने सतीति । करटायाष्टीपि: करटाटीपि, काहलाया वादनं काहलावादनं, तयोर्द्वन्द्वैकवचनम् । कूटेनैकेनेति । शुद्धखण्डाभ्यां विनेत्यर्थः । तद्धीमित्यनुकरणम् । तदात्मक छण्डणोऽन्ते यस्येति स तथोक्तः । विद्यावन्तः; केवलं लक्ष्यप्रयोक्तारः । तानेव लोके ' विद्यावंतरू' इति कर्णाटा वदन्ति । टिरिकीत्येषामावृत्तिरिति । टिरिकि टिरिकि टिरिकि टिरिकि, इति टीपे: स्वरूपमुक्तम् ॥ - ९७७-९७९ ॥ 1 ताळे इति सुधाकरपाठः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy