SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४२८ संगीतरत्नाकरः यतिरोता च गजरो रिगोणी कवितं पदम् ॥ ९४५ ॥ मेलापकचोपशमोद्ग्राहप्रकरणान्यथ । अवत्सकश्छण्डणश्च तुडुका मलपं ततः ॥ ९४६ ॥ मलपाङ्गं च मलपपाटश्छेदोऽथ रूपकम् । अन्तरोऽन्तरपाटश्च खोजः खण्डयतिस्ततः ॥ ९४७ ।। खण्डच्छेदोऽप्यवयतिः खण्डपाटश्च खण्डकः । खण्डहुल्लः समः पाटो ध्रुवकोऽङ्गाङ्गरूपके ॥ ९४८ ॥ तालो चितालः खलकः समुदायश्च जोडणी । उडवस्तलपाटश्चोहवणी तुण्डकस्ततः ॥ ९४९ ॥ अङ्गपाटश्च पैसारस्त्रिचत्वारिंशदित्यमी । उक्ताः श्रीकरणागण्या प्रबन्धा वाद्यसंश्रयाः ॥ ९५० ॥ शीतोदकास्तथा स्नानगर्वोऽन्यो गर्वनिर्णयः । उत्प्रेक्षामात्रजा लक्ष्महीनास्तेऽस्मदुपेक्षिताः ॥ ९५१ ।। दीत्यादि । अत्र ; वाद्यप्रकरणे, गीतमबन्धवत् उद्ग्राहादिनिवद्धा इति । उद्गाहादयः ; उद्गाहः, मेलापकः, ध्रुवः, विकल्पेनान्तरः, आभोगश्चेति प्रबन्धाध्याय उक्ता धातवः ; तैर्निबद्धा एलादयो यथा गीतप्रबन्धे उक्ताः, तथात्रापि तैर्निबद्धा यत्यादयो वाद्यप्रबन्धाः स्युः । गीतप्रबन्धवदित्यतिदेशेनैव मेलापकाभोगयोर्यथायोगमभावेन द्विधातुकत्वादिकं भेदत्रयं द्रष्टव्यम् । वाद्यप्रवन्धगतानामुद्गाहादीनां भाण्डिकलोककृताः संज्ञास्तु लहरीत्युद्गाहस्य, यडुपु इति मेलापकस्य, अन्तरिति ध्रुवस्य, उपान्तरिति वैकल्पिकस्यान्तरस्य, मुक्तायीत्याभोगस्य च संज्ञा द्रष्टव्याः। तद्भेदलमाणीति । तेषां वाद्यप्रबन्धानां भेदा यत्यादयः ; तासां लक्ष्माणि लक्षणानि। तान्युद्दिशतियतिरित्यादि ॥ -९४४-९५१ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy