SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४१८ संगीतरत्नाकरः चारुश्रवणिकालग्नपरिश्रवणिका ततः । समपहारः कुडुवचारणा करचारणा ।। ९०१॥ दण्डहस्तो घनरवस्तानीति द्वादशावदन् । वल्लिश्च वल्लिपाटः स्याद्धत्ताभदौ झडप्पणी ।। ९०२ ॥ अनुश्रवणिका हस्तो जोडणी त्रिगुणा ततः । पञ्चहस्तः पश्चपाणिर्वाद्यं स्यात्पञ्चकर्तरी ॥ ९०३ ।। ततश्चन्द्रकला प्राहुर्वाधानीति त्रयोदश । प्रायेणैतानि दृश्यन्ते हुडुक्कावाद्यगोचरे ॥ ९०४ ॥ वाधानामुभयेषां स्यात्पञ्चविंशतिरित्यसौ । आदिमध्यावसानेषु देकारबहुलं भवेत् ॥ ९०५॥ __ (क०) अथ त्रयोदश प्रायिकहुडुक्कावाद्यान्युद्दिशति-वल्लिश्चेत्यादि । घत्ताभेदाविति । घत्ता च भेदश्चेति द्वन्द्वः । झडप्पणीत्येकोऽन्ये च वोल्लावण्यादयो रूढितः संज्ञाशब्दा द्रष्टव्याः ।। -९०२-९०४- ॥ ___ (सु०) वाद्यानि लक्षयितुमाह-पाटेति । पूर्वोक्तपाटविन्यासविशेषाः पटहादिषु वाद्येषु विधीयमाना वाद्यानीत्युच्यन्ते । तानि च बोलावण्यादीनि घनरवान्तानि द्वादश; वल्ल्यादीनि चन्द्रकलान्तानि च त्रयोदश । तानि हुडुक्कावाद्यविशेषा एव भवन्ति ; एते मिलिता: पञ्चविंशतिः ॥९००,९०४-॥ __ (क०) तत्र बोलावणी लक्षयति-आदिमध्यावसानेविति । देकारबहुलमिति । यदा पटहे वाद्यत्वेन बोल्लावणी वाद्यते, तदा देंकारेण बहुलं प्रचुरं भवेत् । द्वितीयं च तादृशमिति । द्वितीयमपि खण्डं देकारबहुलं कर्तव्यमित्यर्थः । अस्याः खण्डद्वयं वाद्यान्तरे स्यायोजनावितमिति । अस्या बोलावण्याः खण्डद्वयमुक्तरूपं योजनान्वितं तत्त. द्वाद्योक्तप्रधानाक्षरैयोजितेतरसाधारणाक्षरान्वितं चेदित्यर्थः । वाद्यान्तरे हुडु Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy