________________
४१४
संगीतरत्नाकरः वादनेन समुद्भतमपाट वलितं विदुः ।
खुंखुदरि२ दां योगि योगि।
इति वलित: (३) अङ्गुष्ठानामिकाभ्यस्तवलनादक्षिणे पुटे ॥ ८८९ ॥ उच्छासाद्वामपाणेश्च जायते गुरुगुञ्जितः ।
थुकर४ थोरगिडिदार घिकि थोंटें।
इति गुरुगुजित: (४) कम्पनं वामपादस्य नितम्बचलनं तथा ॥ ८९० ॥ उच्छ्रासनं करतलस्यार्धसश्चमपञ्चकम् ।
खें खें दरि२ खें खेटः२ ।
इत्यर्धसञ्च: (५)
त्रिकस्य चलनाद्वामाङ्गुष्ठस्य परिघट्टनात् ॥ ८९१ ॥ स्कन्धसञ्चाच्च संजातं त्रिसञ्चं परिचक्षते ।
खेंद खें खें दखेंद। इति त्रिसच: (६)
धारिते सति यद्वादनं तस्मात् वलिताख्योऽपाटो जायते, इति वलित: (३) दक्षिणे पुटे अङ्गुष्ठानामिकाभ्यामभ्यस्तात् पुन:कृतात् वलनात् वामपाणेरुच्छासाच्च गुरुगुञ्जित उत्पद्यते, इति गुरुगुजितः (४) वामपादस्य कम्पः, तथा नितम्बस्य चलनम् , करतलस्योच्छासः, एते अर्धसञ्चाख्यमपाट प्रपञ्चयति, इत्यर्धसञ्च: (५) त्रिकस्य :चलनम् , वामाङ्गुष्ठस्य परिघट्टनम,
Scanned by Gitarth Ganga Research Institute