SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३९८ संगीतरत्नाकरः तकारो माणिक्यवल्ली भेदाः सप्तेति संमताः ॥ ८३७ ॥ समस्खलितकस्याद्यः समस्खलितसंज्ञकः । विकटः सदृशः पाटखली चाडुखली ततः ।। ८३८ ॥ अनुच्छल्लस्तथा खुत्तो भेदाः सप्तेति सन्त्यमी । पश्चत्रिशद्धस्तपाटास्तलपाटाश्च कीर्तिताः ।। ८३९ ॥ कोणाहतश्च संभ्रान्तो विषमार्धसमाविति । चत्वारो हस्तपाटाः स्युर्नन्दिकेश्वरभाषिताः ॥ ८४० ॥ उत्फुल्लः खलकस्तद्वत्पाण्यन्तरनिकुट्टकः । दण्डहस्तः पिण्डहस्तो युगहस्तोर्ध्वहस्तकौ ॥ ८४१ ॥ ऽवान्तरभेदाः क्रमेण द्रष्टव्याः । एकैकसराभिधाविति । एकश्चैकसराभिधश्च । तलपाटाश्चेति ; हस्तपाटानामेव संज्ञान्तरम् ॥ ८३०-८३९ ॥ (सु०) सद्योजात इति । ईश्वरस्य सद्योजातमुखात् नागबन्धाख्यः पटहो जातः, वामदेवमुखात् स्वस्तिकः, अघोरमुखादलग्नः, तत्पुरुषाच्छुद्धिः, ईशानमुखात् समस्खलित इति । एते पञ्च पाटा: ईश्वरमुखेभ्यो जाताः । तस्मान्मुख्याः । एतेषां क्रमेण देवता आह-क्रमादिति । ब्रह्मविष्णुशर्वरवीन्दवः क्रमाद् देवताः। एतेषां भेदानाह-नागबन्धश्चेति। नागबन्धपाटस्य, नागबन्धादयो विक्षेपान्ताः सप्त भेदाः । स्वस्तिकपाटस्य, स्वस्तिकादयः पूरकान्ता: सप्त मेदाः । अलग्नस्य, अलग्नादयः स्फुरणकान्ताः सप्त भेदाः । शुद्धेः, शुद्धयादयो माणिक्यवल्ल्यन्ताः सप्त भेदाः । समस्खलितस्य, समस्खलितादयः खुत्तान्ताः सप्त भेदाः । सर्वे मिलिता: पञ्चत्रिंशद्धस्तपाटाः । त एव तलपाटा इत्युच्यन्ते ॥ ८३०-८३९ ॥ (क०) मतान्तरेण पटहे चतुरः पाटानुद्दिशति-कोणाहतश्चेत्यादि । पटहादिसाधारणानेकविंशतिहस्तपाटानुद्दिशति-उत्फुल्ल इत्यादि। Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy