SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः संयोगवियोगाभ्यां क्रमव्युत्क्रमयोगतः । सस्वरत्वास्वरत्वाभ्यां पाटास्ते स्युरनेकधा ।। ८२३ ॥ उल्यामेव कारो देकारः कवलेऽधिकः । देशीपटहमेवाहुरिममडावजं जनाः ॥ ८२४ ॥ अष्टादशाङ्गुलः किंचिनतायो मध्यतः पृथुः । कोण: कार्यो मूलदेशे मदनाम्बरवेष्टितः ।। ८२५ ।। पद्मासनोपविष्टेन गोष्टयामूरुद्वयोपरि । संस्थाप्य मार्गपो वाद्यो वर्णोद्भवे पटुः ।। ८२६ ॥ chaarasi वाद्यते घटवाद्यवत् । कोणेन पाणिना वास्य वादनं सूरयो विदुः ।। ८२७ ।। इति पटहलक्षणम् ३९५ पटपाटा इत्युच्यन्त इत्यर्थः । संयोगविप्रयोगाभ्यामिति । संयोग: “हलोऽनन्तराः संयोगः " (पाणिनिसूत्रम् १-१-७) इत्मुक्तलक्षणः, विप्रयोगस्तद्विपर्ययः । क्रमन्युत्क्रमयोगत इति । वर्णानुपूर्व्या समुच्चारणं क्रमः, तद्विपर्ययेणोच्चारणं व्युत्क्रमः । सस्वरत्वास्वरत्वाभ्यामिति । अत्र स्वराः षड्जादय एव विवक्षिताः, न त्वकारादयः । तेषां विप्रयोगशब्देनैव गृहीतत्वात् । षड्जादिग्रहणेऽपि सस्वरमिति रागसाहित्यमेव विवक्षितम् । अन्यथा अस्वरत्वस्यापि व्यवच्छेद्याभावादनर्थकत्वमापद्येत । स्वरस्थायिशब्दस्य षड्जाद्यन्यतमस्वर-. राहित्याभावात् । अतोऽत्र स्वरशब्दो रागोपलक्षणत्वेन द्रष्टव्यः । एवमुक्तैर्विशेषणैस्तं पाटाः अनेकधा स्युरिति, बहुभेदभिन्ना भवन्तीत्यर्थः । उल्यामेव झेंकार इति । उद्दली नाम देशीपटहस्य वामवक्त्र पिधायकश्चर्मविशेष उच्यते ; तत्र वादनेन कार एवाधिक इति । पूर्वोक्तेभ्यः षोडशवर्णेभ्योऽधिक उत्पद्यत इत्यर्थः । देकारः कवलेऽधिक इति । कवलं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy