SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः रिमेव ग्रहमाश्रित्य द्विस्त्रिहित्य मं ततः । तं विलम्बिततां नीत्वा दीर्घाकृत्य तु मध्यमम् ॥ ७५६ ॥ रिगौ रिदलमेतानि द्रुतीकृत्य विलम्ब्य निम् । पुनरुच्चार्य तं कृत्वा धैवतं सकृदाहतम् ॥ ७५७ ॥ वादयित्वा निषादं च ग्रहन्यासेन जायते । नाट्यरामकृतेराचं स्वस्थानमिति तद्विदः ।। ७५८ ॥ अथवा मध्यमं कृत्वा ग्रहमाहत्य पश्चमम् । द्विस्त्रिाप्यवरोहेण धारक्रमादृषभं द्रुतम् ।। ७५९ ॥ एत्याध तस्य षड्जं च रेरध वादयेत्पुनः । अथोच्चार्य रिमौ पं तु विलम्ब्य न्यस्यते यहे ।। ७६० ॥ यत्र स्वस्थानमाद्यं तनाट्यरामकृतेर्मतम् । इति नाट्यरामक्री: ग्रहं कृत्वा धमाहत्य सकृद् ग्रहपरं स्वरम् ।। ७६१ ।। (सु०) अथ नाट्यरामक्रियमाह---रिमेवेति । ऋषभे रहे सति, गान्धारं द्विस्त्रिस्ताडयित्वा, विलम्ब्य च मध्यमं दायित्वा, ऋषभगान्धारौ शीघ्र गीत्वा, निषादं विलम्ब्य, पुनरुचार्य धैवतं, सकृदाहतं गीत्वा निषादानन्तरं आहे समाप्तौ नाव्यरामक्रियाः प्रथमं स्वस्थानम् || ७५६-७५८ ॥ (सु०) मतान्तरमाह-अथवेति । मध्यमग्रहानन्तरं पञ्चमं द्विस्त्रिस्ताडयित्वा धैवतादृषभपर्यन्तमाश्वागत्य, तस्यार्धमृषभस्यार्ध षड्जं च निषादार्ध च वादयेत् । ततः रिमौ ऋषभमध्यमौ विलम्बितं पञ्चमान्ते ग्रहे समाप्तिरिति ॥ ७९९, ७६०-॥ इति नाट्यरामक्री: (सु०) अथ मल्हारमाह-ग्रहमिति । धैवतं ग्रहं कृत्वा ग्रहात्परं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy