SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः ग्रहं द्विगुणसं प्रोच्य तदर्धे च द्वितीयकम् ॥ ७३५ ॥ विलम्बिते तृतीयेऽथ द्वितीयं द्रुततां नयेत् । ग्रहार्थे च स्थिरीभूय कम्पयित्वा ग्रहं ततः ॥ ७३६ ।। परौ स्वरौ द्रुतीकृत्य लघुकृत्य परं ग्रहे । न्यासे कृते रामकृतेः स्वस्थानं प्रथमं भवेत् ॥ ७३७ ॥ द्वितीयस्वरमेवास्या वंशे वीक्षामहे ग्रहम् । इति रामक्री : तस्मिन्नेव हे कृत्वा द्वितीयं च तृतीयकम् ॥ ७३८ ॥ ग्रहा द्रुतमुच्चार्य स्पृष्ट्वा पूर्व ग्रहस्य च । अर्ध प्रोच्य विरम्याथ पूर्व स्पृष्टा तृतीयकम् ।। ७३९ ॥ लघुकृत्य लघोः पूर्वौ स्पृष्ट्राय स्थायिनः परौ । लघुकृत्य द्रुतं कृत्वा द्वितीयं न्यस्यते ग्रहे ॥ ७४० ॥ यदा तदा गौडकृतेर्भवेत्स्वस्थानमादिमम् । द्वितीयोऽस्यामपि प्रायो ग्रहो लक्ष्येषु दृश्यते || ७४१ ॥ इति गौडकी: ३७७ 1 ( सु० ) अथ रामक्रियमाह – ग्रह इति । द्विगुणं षड्जं ग्रहं च गीत्वा तस्यार्धं द्वितीयं च स्वरमुच्चार्य तृतीयं विलम्ब्य द्वितीयं शीघ्रं गायेत् । ततो स्थिरग्रहार्धगानानन्तरं ग्रहं प्रकम्प्य परौ ग्रहौ द्वितीयतृतीयौ स्वरावाशूच्चार्य, परं च तुर्यं लाघवेन गीत्वा ग्रहे समाप्तौ रामक्रिया आद्यं स्वस्थानं भवति ॥ -७३५-७३७- ॥ इति रामक्री: ( सु० ) अथ गौडक्रियमाह - तस्मिन्निति । तस्मिन्नेव द्विगुणे षड़जे हे कृते सति, द्वितीयतृतीयौ गीत्वा ग्रहस्यार्धे शीघ्रं गीत्वा पूर्वस्पर्शात् प्रहार्धो 48 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy