SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३७२ संगीतरनाकरः तमेव स्थायिनं कृत्वा द्वितीयं वादयेद् द्रुतम् । लघू ग्रहद्वितीयौ च कृत्वा ताभ्यां परं स्वरम् ।। ७११ ॥ विलम्ब्य स्फुरितं तु द्विर्विदध्यात्पञ्चमं ततः । अधरांस्वीक्रमादुक्त्वा स्थायिनि न्यस्यते यदा ।। ७१२ ।। देश्यास्तदाधं स्वस्थानं द्वितीयोऽस्या ग्रहो जने । इति देशी गान्धारे स्थायिनि प्रोच्य द्वितीयं च तृतीयकम् ।। ७१३ ॥ तुर्य विलम्ब्य तत्पाञ्चं कृत्वा स्पृष्टा द्वितीयकम् । दीर्घाकृत्य तृतीयं चोक्त्वा द्वितीयं ग्रहस्वरे ।। ७१४ ।। न्यासो यदा स्यात्स्वस्थानं देशाख्यायास्तदादिमम् । मुद्रितोऽम्या ग्रहो वंशे लक्ष्यते लक्ष्यवेदिभिः ।। ७१५ ।। इति देशाख्या इति रागाङ्गानि तृतीयानुच्चार्य ग्रहं सकृत्ताडयित्वा द्वितीयमाशूच्चार्य पञ्चमं विलम्ब्य तृतीयतुयौं शीघ्र गीत्वा आरोहे समाप्तौ धन्नास्याः प्रथमं स्वस्थानम् ॥ ७०८-७१० ॥ इति धन्नासी (सु०) अथ देशीमाह-तमेवेति । षड्ज स्थायिनं विधाय द्वितीय शीघ्रं वादयेत् । तत आरोहः । ग्रहद्वितीयं लाघवेनोच्चार्य तत्परं तृतीयं स्वरं विलम्बितमुच्चार्य पञ्चमं द्विःस्फुरितं कुर्यात् । अधरात् अध:स्थितान् त्रीन् क्रमादुच्चार्य स्थायिनि यदा समाप्यते तदा देशीरागस्य प्रथमं स्वस्थानम् ॥ ७११, ७१२-॥ इति देशी (सु०) अथ देशाख्यामाह-गान्धार इति । गान्धारस्वरे स्थायिनि Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy