SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः द्वितीयोऽस्याः स्वरो लक्ष्ये ग्रहत्येनोपलक्ष्यते ॥ ७०२ ।। इति वराटी ऋपमे स्थायिनि प्राञ्चं कम्पयित्वार्धमस्य च । कृत्वा ग्रहं द्वितीयं च तृतीयं तदधः स्वरम् ।। ७०३ ॥ यहमेत्य ततः पाञ्चं प्रकम्प्योक्त्वाधेमस्य च । ग्रहे न्यासेन गुर्जर्याः स्वस्थानं प्रथमं भवेत् ।। ७०४ ।। तृतीयो दृश्यते प्रायो ग्रहोऽस्यां लक्ष्यगोचरे। तारषड्जं वेत्यर्थः । तयोः पूर्वपूर्वापेक्षया द्विगुणत्वसंभवात् । अर्धे द्वयर्ध, स्थायिनश्चतुर्थस्वरमित्यर्थः ॥ -६९९-७०२ ॥ इति वराटी (मु०) अथ वराटीमाह-स्थायिनमिति । वराव्यां द्विगुणमुच्चारितं षड्ज स्थायिनं कृत्वा, ततोऽध वादयेत् । ततः पूर्वं स्थायिद्वितीयतृतीया वादनीयाः । द्वितीयं प्राप्य स्थायिनि न्यासे वराव्याः प्रथमं स्वस्थानम् । अन्यत् स्वस्थानत्रितयं भैरववत्कार्यम् ॥ -६९९-७०२॥ इति वराटी (क०) गुर्जर्याम् - तृतीयो दृश्यते पायो ग्रहोऽस्यां लक्ष्यगोचर इति । अत्रापि मुद्रितस्वरात् तृतीयो ग्राह्यः । सोऽप्यन्तिमरन्ध्रत्रयमोचनात् जायत इति पूर्वमुक्तम् । उत्तरत्र वसन्तादिप्वप्येवं द्रष्टव्यम् ॥७०३, ७०४ - ।। इति गुर्जरी (सु.) अथ गुर्जरीमाह-ऋषभ इति । ऋषभे स्थायिनि प्राञ्चं पूर्वस्वर कम्पितं कृत्वा, अन्यः अस्यैवार्धमुच्चार्य महद्वितीये तृतीयद्वितीयमहा गेयाः । ततः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy