SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४२ संगीतरनाकरः एकवीरवदन्यत्तु लक्ष्म त्रिपुरुषे पुनः । दण्डः सार्धेः पोडशभिः सयवामितोऽगुलैः ।। ५३६ ॥ सप्तान्तराण्यधस्तारात्पृथक्सास्त्रिभिर्यवैः । मितानि लक्षणं शेषं पूर्ववंशवदिष्यते ॥ ५३७ ॥ दण्डश्चतुर्मुखे सार्थाष्टादशाङ्गुलसंमितः । पृथक्सप्तान्तरालानि चतुर्भिः साधिभिर्यवैः ॥ ५३८ ॥ मितानि पूर्ववच्छेपं पञ्चवक्त्रे तु संमितिः । दण्डश्च यवयुग्मेनाभ्यधिकागुलविंशतिः ॥ ५३९ ॥ सप्तानामन्तरालानां पृथक्पश्चयवा मितिः । अन्यत्तु पूर्ववल्लक्ष्म दण्डमानं तु षण्मुखे ।। ५४० ॥ अगुलानां यवार्धानां द्वाविंशतिरुर्दारिता । सार्धपश्चयवं मानं पृथगन्तरसप्तके ॥ ५४१ ॥ शेपं तु पूर्ववद्वंशे मुनौ दण्डमितिः पुनः । त्रयोविंशत्यागुलानां साधयान्तरसप्तके ।। ५४२ ॥ प्रत्येकमङ्गुलं मानं शेषं पूर्ववदिष्यते । वंशे वसौ दण्डमानं चतुर्भिरधिका यवैः ॥ ५४३ ॥ पञ्चविंशतिराख्यातागुलानामन्तराणि तु । पृथक्सप्तयवानि स्युः शेषं पूर्वोक्तमिष्यते ॥ ५४४ ॥ षोडशागुलो दण्डः । ताराध:स्थितसप्तरन्ध्राणि सार्धयवत्रयमितानि । शेषं लक्षणं पूर्ववंशवत् । दण्ड इति । चतुर्मुखे वंशे ; सार्धाष्टादशाङ्गुलमितो दण्डः। अन्तरालानि सपादयवचतुष्टयमितानि । पञ्चवक्त्र इति । पश्चवक्त्रे वंशे ; यवद्वयाधिकविंशत्यालो दण्डः । पञ्चयवमितान्यन्तरालानि । दण्डमानमिति । षण्मुखे ; अर्धयवाधिकद्वाविंशत्यङगुलो दण्डः । सार्धपञ्चयवानि सप्तान्तरालानि । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy