________________
३३४
संगीतरत्नाकर:
पृथक्सपादपादेनाभ्यधिकं मानमङ्गुलम् । मूलतः सप्तमांशोनकनिष्ठामध्यपर्वणा ।। ४८७ ॥ मिता खानिः परं लक्ष्म पूर्वोक्तं तैरुदीरितम् । सपादानि चतुस्त्रिंशदङ्गुलानि मितिर्भवेत् ॥ ४८८ || यवार्धसहितारुद्र दण्डस्यान्तरसप्तके । सार्धाङ्गुलं पृथमानं कनिष्ठामध्यपर्वणा ॥ ४८९ ॥ खानिः परिमिता शेषं पूर्ववंशवदिष्यते । सप्तत्रिंशद्यवार्धेनाभ्यधिकान्यङ्गुलानि तु ।। ४९० ।। आदित्ये दण्डमानं स्यात्पादोनं त्वङ्गुलद्वयम् । अन्तरेषु पृथङ्मानमपरं रुद्रवंशवत् ॥ ४९१ ॥ मनोर्दण्डे सपादैकोनचत्वारिंशदङ्गुलम् |
गर्भे सुषिरम् ; तस्य मानं षष्ठभागविहीनं मध्यमं कनिष्ठापर्व स्यादिति । तेन मितमित्यर्थः । मूलतः, दण्डस्य शिरोभागात् । अस्मिन् मते च वंशलक्षणानि ग्रन्थत एव सुबोधानि ॥ ४८४ - ५०२ ॥
( सु० ) दण्ड इति । महानन्दे वंशे, दण्डः स्वचतुर्थाशन्यूनयवचतुर्थांशाधिकद्वात्रिंशदङ्गुलः ; मस्तकप्रदेशः प्रान्तश्च पृथक् त्र्यङ्गुलः ; सपादाङ्गुलिप्रमाणं जातिमुखं फूत्काररन्ध्रम् ; सप्तान्तरालानि मुखचतुर्थीशाधिकाङ्गुलप्रमाणानि ; खानिरन्ध्रं सचतुर्थांशोनकनिष्ठामध्यपर्वमिति: । अथवा खानिरन्ध्राणि मितौ माने इति व्याख्येयम् । सपादानीति । रुद्रवंशस्य दण्ड: अर्धयवाधिकसपादचतुस्त्रिंशदङ्गुलः; अन्तरालानि सार्धांगुलप्रमाणानि ; खानिरन्ध्राणि कनिष्ठामध्यपर्वमितिः ॥ ४८५-४८९-॥
(सु० ) सप्तेति । आदित्यवंशस्य दण्डः अर्धयवाधिकसप्तत्रिंशदङ्गुलः ; पादोनाद्गुलद्वयपरिमितानि अन्तरालानीति । मनोरिति । मनुवंशस्य दण्डः
Scanned by Gitarth Ganga Research Institute