SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१२ संगीतरत्नाकरः स्थायिनो मध्यमात्पश्चावरुह्य यदि मावधीन् । मात्तृतीयं व्रजेत्तस्मादारुह्य चतुरः स्वरान् ॥ ३८८ ।। स्पृष्ट्वा स्थायिनमेतस्मात्पूर्व कृत्ला विलम्बितम् । षड्जे चेन्न्यस्यते गौडकर्णाटो जायते तदा ॥ ३८९ ॥ लक्ष्ये तु पञ्चमः स्थायी गौडस्यास्य विलोक्यते । इति कर्णाटगौडः ग्रहान्मन्द्रनिषादाचेत्समुच्चार्य स्वरं परम् ।। ३९० ॥ ततस्तृतीयतुर्यों च गत्वा स्थायितृतीयकम् । स्थायितुर्यं च कृत्वास्मात्स्वरान्पञ्चावरुह्य च ॥ ३९१ ॥ स्थायिनोऽधस्तुरीयं च स्थायिनोऽधस्तनं ततः । स्थायिनं तत्परं चोक्त्वा स्थायितुर्य ग्रहात्परम् ॥ ३९२ ।। कृत्वा न्यासे ग्रहे गौडस्तुरुष्को जायते तदा । स एव मालवीत्युक्तः स्थायी लक्ष्येऽस्य पञ्चमः ।। ३९३ ।। इति तुरुष्कगोड: (सु०) स्थायिन इति । मध्यमात् स्थायिनस्तृतीयस्वरपर्यन्तमागत्य, ततश्चतुःस्वरानारोहेत् । तत: स्थायिनं स्पृष्ट्वा पूर्व विलम्बितमुच्चार्य षड्जे समाप्तिश्चेत्, तदा कर्णाटगौडः ॥ ३८८, ३८९- ॥ ____ इति कर्णाटगौड: (८). (सु०) ग्रहादिति । ग्रहं मन्द्रनिषादं, तत्परं षड्ज तृतीयतुर्यों च गीत्वा, तत: स्थायिनः तृतीयं तुर्य च विधाय, चतुर्थपञ्चमाववरुह्य स्थायिनः सकाशात्पूर्व तृतीयमधस्तनं स्थायिनं चोक्त्वा, स्थायिनस्तुरीयं द्वितीयं चोच्चार्य ग्रहे न्यासे, तुरुष्कगौडः । लक्ष्येऽस्य स्थायी पञ्चमः ॥ -३९०-३९३ ॥ ___ इति तुरुष्कगौडः (९) Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy