SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः आरुह्य चतुरस्तस्मादवरोहे ग्रहं व्रजेत् । यदा तदा स्यात्कामोदा मध्यमोऽस्या ग्रहो भवेत् ॥ ३६६ ॥ इति कामोदा इति भाषाङ्गानि षड्ज तु स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च । स्वरद्वयं द्विरारुह्य तृतीयं च चतुर्थकम् ॥ ३६७ ।। प्रकम्प्याथ तृतीयं च विलम्ब्याहत्य पञ्चमम् । स्थाय्यन्तमवरोहेच्चेत्स्वरानृषभवर्जितान् ॥ ३६८ ॥ मध्यषड्ज ग्रहं कृत्वा सह प्राचा परौ स्वरौ । पोच्य तुर्य विलम्ब्याथ तृतीयं सद्वितीयकम् ॥ ३६९ ।। स्पृष्ट्वा यदा ग्रहे न्यासस्तदा रामकृतिर्भवेत् । इति रामकृतिः स्थायिनं मध्यमं कृत्वाधश्चतुर्थमुपेत्य च ॥ ३७० ॥ ग्रहाधरांस्त्रीनारुह्य स्वरं स्पृष्ट्वा तृतीयकम् । तस्मात् चतुर्णामारोहणम् । तेषामेव ग्रहवर्जमवरोहे कामोदा। अस्या ग्रहो मध्यमः ॥ -३६५, ३६६ ॥ इति कामोदा (३) इति भाषाङ्गानि (सु०) मध्येति । मध्यस्थानस्थः षड्जो ग्रहः, अधस्तनेन सह परौ द्वितीयतृतीयौ स्वरावुच्चार्य, चतुर्थ विलम्बेनोच्चार्य, तृतीयद्वितीयौ शीघ्रमुच्चार्य ग्रहे समाप्तौ रामकृतिः ॥ ३६७-३६९- ॥ । इति रामकृतिः (१) (सु०) स्थायिनमिति । मध्यम: स्थायी, तस्मादधश्चतुर्थमागत्य, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy