SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः कला द्वादश शेषास्तु स्युरेककलयुग्मवत् ॥ १९९ ॥ अथ द्वाविंशतिः प्राच्याः स्युचतुर्विंशतिः कलाः । द्वितीयपक्षवान्ते त्वष्टौ द्विकलयुग्मवत् । १९२ ।। एषु त्रिष्वपि पक्षेषूत्तरश्चच्चत्पुटस्तथा । अतीतेन ग्रहेण स्याद्विदारीरथ कीर्तयेत् ।। १९३ ।। शम्यात्रयेण प्रथमा परा तालत्रयेण तु । शम्याद्वया तृतीया स्यात्तुर्या तालद्वयेन तु || १९४ ।। पञ्चमी शम्यातालाभ्यां षष्ठी स्यात्पञ्चपाणिना । चच्चत्पुटा सप्तमी स्यात्तास्तिस्रो मन्वते परे ।। १९५ ।। २६९ द्वाविंशतिकलापक्षवत् ; आद्यासु द्वादशकलासु शम्यादयः पूर्वोक्ता द्वादश पातकला योज्याः । ततः; त्रयोदश्यादिषु कलासु । द्विकलोत्तरवदिति । निप्रता, शनिता, निशता, प्रनिसमिति द्वादश पातकला योज्याः । शेषा इति । पञ्चविंश्यादयः चतस्रः । एककलयुग्मवदिति ; संशताशा योज्या इत्यर्थः । अथ द्वाविंशतीत्यादि, प्राच्याः स्युश्चतुर्विंशतिः कला द्वितीयपक्षवदिति; अष्टाविंशतिकलापक्ष इत्यर्थः । प्रान्ते तु; अष्टाविंशतिपञ्चविंशादयः, अष्टौ द्विकलयुग्मवदिति निशनिताशप्रनिसाः प्रयोज्या इत्यर्थः ॥ - १९१-१९२ ॥ ; (सु० ) अष्टाविंशतिकलापक्षे पातकलाविधिमाह - अष्टाविंशताविति । द्वादशेति । अत्र अष्टाविंशतिकलायां ध्रुवायां द्वादश कलाः प्राग्वत् द्वाविंशतिध्रुवावत् । ततो द्विकलेनोत्तरेणेव ज्ञेया द्वादश कलाः । शेषाश्चतस्रः एककलचच्चत्पुटवत् ॥ - १९१-१९२ ॥ (क०) आश्रावणायां तत्तन्मतभेदेन विदारीं दर्शयितुमाह Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy