SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ षष्ठो वागाध्यायः शेषा द्वादश लाः खण्डैस्त्रिभिरेवं ध्रुवा भवेत् । श्रावणायां गेया सा सूरिभिः सिद्धिमीप्सुभिः ।। १८६ ।। वक्ष्यामहे मुनिमतादस्यां पातकलाविधिम् । द्वाविंशतिं कलाः केचित्केऽप्यष्टाविंशतिं कलाः ॥ १८७ ॥ अन्ये द्वात्रिंशतं प्राहुस्तत्रैवं तालयोजना | शम्यात्रयं ततस्तालास्त्रयोऽवानागतग्रहे ॥ १८८ ॥ २६७ परिशेषवचनेन आद्यखण्डे चतुर्विंशतिवर्णके तत्र प्रथम द्वितीयैकादश चतुर्दशपञ्चदशचतुर्विंशाः षड्गुरवः । इतरेऽष्टादश लघवः । एवं खण्डे द्वितीयक इति । तत्रापि वर्णसंख्या गुरुलघुसंनिवेशश्च आद्यखण्डवत्कर्तव्य इत्यर्थः । तृतीये त्विति । तृतीये खण्डे तु तृतीयो गः, तृतीयो वर्णों गुरुः कर्तव्यः । अष्टमपञ्चदशौ तथेति । गुरू कर्तव्यावित्यर्थः । शेषा द्वादश ला इत्यनेनास्य खण्डस्य पञ्चदशवर्णात्मकत्वं दर्शितं भवति । सिद्धिमीप्सभिरिति दृष्टादृष्टफलकाङ्क्षिभिरित्यर्थः ॥ १८४ - १८६ ॥ ; (सु०) ध्रुवां लक्षयति - आद्यखण्ड इति । आद्यखण्डे ; प्रथमखण्डे, आद्यौ द्वौ वर्णों एकादशादयश्च वर्णा गुरवः । अन्ये द्वादश वर्णा लघवः । एवं त्रिभिः खण्डैर्ध्रुवा भवति । सा ; ध्रुवा, आश्रावणायां सिद्धिमीप्सुभिः वाद्यसिद्धिमभिलषद्भिः गेया ॥ १८४ - १८६ ॥ (क० ) अस्यामाश्रावणायां पातकलाविधिमाह - वक्ष्यामह इत्यादिना । तत्र ; द्वाविंशतिकलापक्षे । शम्यात्रयमिति । आद्यासु तिसृषु कलासु शम्यात्रयं योजयेत् । ततस्तालास्त्रय इति । ततः चतुर्थ्यादिषु तिसृषु कलासु त्रयः ताला योज्याः । अनागतग्रह इति । गीतादिकं किंचित्प्रथमं तालरहितमारभ्य अनन्तरमेताः षट्कलाः प्रयोक्तव्या इत्यर्थः । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy