SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २५९ षष्ठो वाद्याध्यायः अङ्गुलीभेदमात्रेण व्यञ्जनस्तद्भिदां ब्रुवे । अङ्गुष्ठाभ्यां कनीयस्या तन्त्रीरेका निहन्यते ॥ १५४ ॥ युगपद्यत्र तत्पुष्पमभिलेषुः पुरातनाः। ___ इति पुष्पम् (१) एकस्वरं यदा नानास्थानकं तन्त्रिकाद्वयम् ।। १५५ ॥ अङ्गुष्ठाभ्यामेककाले निहन्ति स्याकलं तदा। इति कलम् (२) दक्षिणाङ्गुष्टतो हन्ति वामागुष्ठनिपीडिताम् ॥ १५६ ॥ तन्त्री यत्र तदाचष्ट तलं सोढलनन्दनः । इति तलम् (३) बिन्दुरेका तन्त्र्यां स्यात्पहारो गुरुनादकृत् ।। १५७ ।। ___ इति बिन्दुः (४) रेफस्त्वेकस्वरो घातः क्रमात्सर्वाङ्गुलीकृतः । इति रेफ: (५) तलं कृत्वावरोहेण घातोऽनुस्वनितं मतम् ॥ १५८ ।। इत्यनुस्वनितम् (6) वामागुष्ठेन तूर्ध्वाधोघातो निष्कोटितं मतम् । इति निष्कोटितम् (७) घातोऽतिमधुरध्वानस्तर्जन्योन्मृष्टमुच्यते ॥ १५९ ॥ इत्युन्मृष्टम् (८) कनिष्ठया दक्षिणयाङ्गुष्ठाभ्यामप्यधः सरन् । हन्ति त्रिस्थानकं तन्त्रीत्रयमेकस्वरं पृथक् ॥ १६० ।। (क०) व्यञ्जनधातूनाह-अगुलीभेदमात्रेणेति । व्यञ्जनधातौ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy