SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४५ षष्ठो वाद्याध्यायः शुकवतः स्फुरितको घोषः स्यादर्धकर्तरी ।। ९२ ॥ क्रमादेते करा यत्र तामाहुः कैकुटी बुधाः । इति कैकुटी (३) स्फुरितैर्मूर्च्छनासंज्ञैः कर्तरीत्रितयेन च ।। ९३ ॥ युक्तं करैः क्रमादेभिः कङ्कालं कथितं बुधैः । इति कङ्कालम् (४) स्पष्टतारमुपेतं यत्कर्तर्या खसितेन च ॥ ९४ ॥ कुहरेणाथ तद्वाद्यं वस्तु वस्तुविदो विदुः । इति वस्तु (५) कर्तरीखसितो यत्र क्रमेण कुहरः करः ॥ ९५ ॥ रेफभ्रमरघोषाश्च तद् द्रुतं ब्रुवते बुधाः । इति द्रुतम् (६) बहुधा मूर्छना हस्ताः स्फुरिताः कर्तरी ततः ॥ ९६ ॥ खसितो यत्र तत्माहुर्गजलीलं कलाविदः । इति गजलीलम् (७) स्खलितो मूर्च्छनाख्यश्च कर्तरीरेफसंयुतः ।। ९७ ।। खसितो यत्र वाद्यज्ञा दण्डकं तद्वभापिरे । इति दण्डकम् (6) करा: क्रमात् यत्र क्रियन्ते सा कैकुटी ; इति कैकुटी (३) स्फुरितमूर्च्छना नग्वकर्तरीकर्तर्यर्धकर्तरीभिर्युक्तं कङ्कालः ; इति कङ्काल: (४) यत्र वाद्ये स्पष्टं तारस्थानोपेतं, कर्तरीखसितकुहराश्च क्रियन्ते तद् वाद्यं वस्त्विति वाद्यवेदिन आहुः ; इति वस्तु (५) यत्र क्रमेण कर्तर्यादयः कराः क्रियन्ते तद् द्रुतम् ; इति द्रुतम् (६) यत्र मूछना हस्ताः बहुधा: बहवः, तत: अनन्तरम् ; स्फुरितकर्तरीखसिताः, तत् कलावेदिन: गजलीलमिति प्राहुः ; इति गजलीलम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy