SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २३८ संगीतरत्नाकरः तथास्या दोरिकादेशं वामस्कन्धे निधाय च ॥ ५७ ॥ ककुभं दक्षिणस्याङ्ग्रेः पाया संधाय यत्नतः । न्यस्तां पृष्ठे कनिष्ठाया वामहस्तस्य कम्रिकाम् ॥ ५८ ॥ सारणात्सारणेत्युक्तामनामाग्गुलिवेष्टिताम् । आकुञ्चन्मध्यमापार्यलग्नां तर्जनिकायतः ॥ ५९॥ निपीडयोरःस्थलासनां तन्त्रीमधिनिधाय च । ऊर्ध्वाधः सारयेन्नादसिद्धयै हस्तं तु दक्षिणम् ॥ ६ ॥ त्यक्त्वा वितस्ति जीवातस्तन्त्री विन्यस्य सारयेत् । अन्यत्रोपरिवाधान्तं नोज़ वक्षःस्थलान्नयेत् ।। ६१ ।। कम्रिका तक्रिया चोक्ता सारणा सा चतुर्विधा ।। उत्क्षिप्ता संनिविष्टाख्योभयी स्यात्कम्पितेत्यपि ॥ ६२ ॥ श्लिष्टा तन्त्री यदोत्प्लुत्य निपतेत्सारणान्मुहुः । तदोरिक्षप्ता संनिविष्टा स्पृष्दैव सारणे भवेत् ।। ६३ ।। क्रमादेतद्वयाभ्यासादुमयी सारणा मता। स्वरस्थाने कम्पनेन कम्पिता कम्रिकोच्यते ॥ ६४ ।। तथा दोरिकादेशं वामे स्कन्धे स्थापयित्वा ककुभं च दक्षिणचरणस्य पार्श्वे यत्नतोऽपसारयित्वा वामहस्तस्य कनिष्ठायाः पृष्ठे न्यस्तां स्थापितां कनिकां वेणुदण्डां सारणात् अध उर्ध्वं प्रसारणात् सारणाशब्दाभिधेयमनामिकं किंचिदगुलिवेष्टितामाकुञ्जन्त्या मध्यमाया: पार्श्वे लग्नां तर्जनिकाग्रेण निपीड्य तन्त्र्याः समीपे निधाय कम्रामाध: सारयेदिति संबन्धः । दक्षिणं तु हस्तं जीवातो वितस्ति त्यक्त्वा तन्त्र्यां विन्यस्य स्थापयित्वा सारयेत् । तं दक्षिणहस्तमुपरि वाद्यादन्यत्र न वक्षःस्थलादूर्ध्वं नयेदिति ॥ ५४-६१ ॥ (१०) सारणाभेदानाह-कम्रिकेति । वादनवेणुदण्डरूपं कम्रिका Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy