SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः २०५ प्लुतानां भेदानामभावो ज्ञेयः । पञ्चमकोष्ठस्थेन षट्सप्तत्युत्तरत्रिंशत्यकेन तस्मिन्काले दलयुक्ता भेदाः संख्येयाः । षष्ठकोष्ठस्थेन पञ्चत्रिंशदकेन द्रुतगुरुयुक्ता भेदाः । सप्तमकोष्ठस्थेनैकादशाङ्केन द्रुतप्लुतयुक्ताः । अष्टमादिकोष्ठत्रयस्थितेभ्यः शून्येभ्यः क्रमात् लगलपगपयुक्तभेदाभावो ज्ञेयः। एकादशाङ्ककोष्ठस्थेन पञ्चशत्यकेन दलगयुक्तभेदाः । द्वादशकोष्ठस्थेन द्वाविंशत्युत्तरशताकेन दलपयुक्ता भेदाः । चतुर्दशकोष्ठस्थेन बिन्दुना लगपयुक्तभेदाभावः । पञ्चदशकोष्ठस्थेन चतुर्विंशत्यकेन दगपयुक्ता भेदा ज्ञेया इति । एवं यथेष्टमधोवर्धितासु पञ्चदशकोठात्मिकासु विपर्ययपङ्क्तिषु कोष्ठकैईष्टव्यम् । एवमेव प्राचीष्वप्युत्तरोत्तरं न्यूनकोष्ठासु तिर्यक्पङ्क्तिषु कोष्ठाकैर्यथासंभवं भेदा ज्ञेयाः । ' तावद् द्रुतोऽत्र' इत्यस्य वाक्यस्यार्थः प्रागेव दर्शितः। उपरिष्टात्समारभ्य संख्यापङ्क्त्यङ्कसंगतेरित्यस्यायमर्थः- उपरितनतिर्यक्पङ्क्तिमारभ्य अधोऽधस्तिर्यक्पङ्क्त्यकसंगतहेतोः पूर्वोक्ता संख्या परिज्ञायत इति । तद्यथा--प्रथमायां तिर्यक्पङ्क्तावेकः । द्वितीयायां द्वौ। तृतीयस्यां त्रयः । चतुर्थ्यो तिर्यक्पङ्क्तौ षट् । पञ्चम्यां दश । षष्ठ्यामेकोनविंशतिः । सप्तम्यां त्रयस्त्रिंशत् । अष्टम्यां षष्टिः । नवम्यां षडुत्तरं शतम् । दशम्यामेकनवत्युत्तरं शतम् । एकादश्यां चत्वारिंशदुत्तरा त्रिंशती । द्वादश्यां दशोत्तरा षट्शती । त्रयोदश्यां नवाशीत्युत्तरं सहस्रम् । एवमधोऽधःपङ्क्तिष्वपि पकृत्यङ्कसंगतेः संख्या ज्ञेया ॥ -३७१-३७६- ॥ इति संयोगमेरुः (सु०) विशेषमाह-चतुर्योगेत्विति । चतुर्योगे त्रियोगजाश्चत्वारो भेदाः, तदङ्केषु पूर्वोक्ता विपर्यया योजनीयाः । ये चत्वार इति । त्रियोगोत्था ये चत्वारो भेदाः, चतुर्योगोत्थपञ्चमा भेदा ते इति ; क्रमात् अन्त्यासु पञ्चसु पङ्क्तिषु ज्ञेयाः । तासु पक्तिषु क्रमेण ये ज्ञातव्यास्तानाह-दलगा इति । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy