SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्तालाध्यायः पङ्क्ति कृत्वेष्टतालस्थद्रुतसंमितकोष्ठिकाम् || ३३८ ॥ तिरीं तत्परामूनां कोष्ठेनाथ ततः पराः । द्विद्विकोष्ठोनिताः स्वस्वपूर्वतोऽथायोजना ।। ३३९ ॥ १७९ तालो यावत् द्रुतस्तावत् संख्याङ्केषु लिखितेषु क्रमादन्त्योपान्त्यतुर्यषष्ठैर्यत्र द्रुतादयो मीयन्ते संख्याङ्कः संपद्यन्ते, स पाताल इति संबन्ध: । अस्य प्रस्तार: - एका दत्ते स एकः अन्त्ये संख्याङ्कश्चैकः, एवं द्वौ पुरस्ताद्देयौ । ततः संख्याङ्के त्रयम्, उपान्त्ये द्वौ एवं पञ्च देयाः । ततः संख्याङ्के षट्, अन्त्ये दश, उपान्त्ये पञ्च, तुर्य एकः, एवं द्वाविंशतिः । ततः संख्याङ्के दश, अन्त्ये द्वाविंशतिः, उपान्त्ये दश, तुर्ये द्वयम्, एवं चतुश्चत्वारिंशदिति ज्ञेयम् । षड्गुतप्रस्तारे चतुश्चत्वारिंशत् द्रुता: ; द्वाविंशतिर्लघवः, पञ्च गुरवः, एकः प्लुत इति क्रमात् अन्त्योपान्त्यतुर्यषष्ठैरङ्गैर्भीयन्ते ॥ -३३४–३३७॥ इति पाताल: " (क० ) दुतमेरुं लक्षयति - पङ्क्ति कृत्वेत्यादि । इष्टतालस्थद्रुतसंमितकोष्ठिकामिति । अत्रास्माकं द्रुतप्लुतात्मकस्ताल इष्टः, तत्रस्थाः द्रुताः सप्त ; तैः संमिताः कोष्ठाः यस्यां सा तथोक्ता । तिरश्चीमिति । नोर्ध्वगां नाप्यधोगताम् अपितु तिरश्चीमेव । दक्षिणगतां प्रथमं तावत्सप्तकोष्ठिकां तिरश्चीमधः पङ्क्ति कृत्वा, अथ; अनन्तरम्, तत्परां पङ्क्ति कोण्ठेन ऊनां न्यूनां; वामस्थप्रथमकोष्ठेन हीनां द्वितीयां परां पङ्क्ति षट्कोष्ठिकं कुर्यादित्यर्थः । ततः द्वितीयस्याः पङ्क्तेः पराः; तृतीयादयः पङ्क्तय: । स्वस्वपूर्वतो द्विद्विकोष्ठांनिता इति । तृतीया परपङ्क्तिः द्वितीयापेक्षया वामस्थप्रथम कोष्ठद्वयहीना सती चतुष्कोष्ठिकात्र कार्या । ततोऽपि परा चतुर्थी पङ्क्तिः पूर्ववत् द्विकोष्ठोनिता सती द्विकोष्ठ - का कार्या । उदाहरणार्थमेतावदेवोक्तम् । अतः परमपि यावदिष्टं तावदुपरि दक्षिणतश्च मेरोर्वर्धयत् । अथाङ्कयोजनेति; क्रियत इति , Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy