SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १६८ संगीतरत्नाकरः भेदानां यावतां मध्ये नष्टप्रश्नः कृतो भवेत् । तावत्संख्याङ्कपर्यन्तां लिखेत्संख्याङ्कसंततिम् ॥ ३२५ ।। अन्त्याङ्के तत्र नष्टाङ्कं पातयेदथ शेषतः । पातयेत्पूर्वपूर्वाकं तत्र त्वपतितो द्रुतः ।। ३२६ ॥ पूर्वश्चेत्पतितो न स्याल्लघुस्तु पतिताद्भवेत् । उत्तरेणाकृतार्थेन सहितात्तदसंभवे ॥ ३२७ ।। पृच्छति तन्नष्टमित्याख्यातम् । तस्योत्तरमिति । तस्य ; नष्टस्य, उत्तरं; भेदस्वरूपनिरूपणोपाय इत्यर्थः । तमुपायं दर्शयति-भेदानामित्यादिना । सोदाहरणं दर्शयामः । यावतां भेदानां मध्य इति । प्लुतप्रस्तारे तावदेकोनविंशतिर्भेदा भवन्ति । तेषां मध्ये नष्टप्रश्नः । नष्टस्य भेदस्यात्र पञ्चदशो भेदः किंरूपः ? इति प्रश्नः कृतो भवेत् । तावत्संख्याङ्कपर्यन्तं संख्याङ्कसंतति लिखेदिति । अत्र प्रथममेकाकं द्वितीयं द्वयकं तृतीयं व्यकं चतुर्थ षडत पञ्चमं दशाकं षष्ठमेकोनविंशत्यमेवमेकोनविंशतिसंख्याङ्कपर्यन्तां संख्याङ्कसंततिं लिखित्वा तत्रान्त्याङ्क एकोनविंशत्यके नष्टभेदपूरणाङ्कमत्र पञ्चदशाङ्कं पातयेत् । अथ शेषतः शेषे, सार्वविभक्तिकस्तसिः । शेषत इति । एकोनविंशतौ पञ्चदशस्वपनीतेषु चत्वारः शेषः, तस्मिन् चतुरके। पूर्वपूर्वावं पातयेदिति । प्रथमं संनिहितं पूर्व दशाङ्कं पातयेत् । अत्रावशिष्टे चतुरङ्के दशाङ्कोऽपतितो भवति । एवमपतिताङ्काद् द्रुतो लब्धो भवति । चतुरके दशाङ्कात्पूर्वस्य षडङ्कस्याप्यपातादपतितात्ततोऽपि द्वितीयो द्रुतो लब्धो भवति । अत्र लब्धान् द्रुतादीन् द्वितीयादीन् वामसंस्थत्वेन लिखेत् । पूर्वः पतितो न स्याचेत् , पतितादादकृतार्थेनोत्तरेण सहितात तदसंभवेऽकृतार्थेन पूर्वेण सहिताद्वा लघुर्भवेदित्येकं वाक्यम् । अत्र चतुरके व्यङ्कस्य पातसंभवात् तच्छेष एकस्मिन् पूर्वस्य द्वयङ्कस्यापातात् अकृतार्थेनापतितेनोत्तरेण षडङ्केन सहितात् चतुरके पतितात् व्यङ्कात् लघुर्लब्धो भवति । अथैकमवशिष्टम् । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy