SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १६४ संगीतरत्नाकरः एकद्वयङ्कौ क्रमान्न्यस्य युञ्जीतान्त्यं पुरातनैः ॥ ३१८ ॥ द्वितीयतुर्यषष्ठाङ्करभावे तुर्यषष्ठयोः । तृतीयपञ्चमाङ्काभ्यां क्रमात्तं योगमग्रतः ॥ ३१९ ।। गुरुर्दुतश्च, ततश्च द्रुतो गुरुर्दुतश्चेति दशमो भेदः । ततो गुरोरधस्तात् लघुः, अनन्तरं द्रुतः, पूर्व लघुटुंतश्च, ततश्च द्रुतो लघुद्वयं द्रुतश्चेत्येकादशो भेदः । ततः प्रथमलघोरधस्तात् द्रुतः, तत उपरिगता: द्रुतलघुप्लुताः । एवं पूर्व द्रुतः; अनन्तरं द्रुतः, पूर्व लघुर्दुतश्चेति द्वादशो भेदः। तत: प्रथमलघोरधस्तात् द्रुतः, ततोपरिगताः द्रुतलघुद्रुताः । पूर्व द्रुतः, ततश्च द्रुतत्रयं लघुर्दुतश्च त्रयोदशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतपूर्व गुरुः, एवं गुरुर्दुतद्वयं चेति चतुर्दशो भेदः । ततो गुरोरधस्तात् लघुः, अनन्तरं द्रुतद्वयं पूर्व लघुः, एवं लघुद्वयं द्रुतद्वयं च पञ्चदशो भेदः । ततः प्रथमलघोरधस्तात् द्रुतः, ततो लघु तद्वयं च, पूर्व द्रुतः, ततश्च द्रुतद्वयं, लघु तद्वयं चेति षोडशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतद्वयं, पूर्व लघुद्रुतौ, ततश्च द्रुतो लघुः, द्रुतत्रयं चेति सप्तदशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतत्रयं, पूर्व लघुः, ततश्च लघुटुंतचतुष्टयं चेत्यष्टादशो भेदः । ततो लघुरधस्तात् द्रुतः, अनन्तरं द्रुतचतुष्टयं, पूर्व द्रुतः, एवं द्रुताः षट् , एवमेकोनविशतिभेदः । ततो लघ्वक्ष्वक्षराभावात्प्रस्तारो नास्ति ॥ ३१६, ३१७- ॥ इति प्रस्तारः (क०) संख्यां लक्षयति--एकद्वयङ्कावित्यादि। क्रमादिति । एकात प्रथमं न्यस्य तदनन्तरं द्वयकं तिर्यक्पङ्क्तिगतत्वेन दक्षिणसंस्थं न्यस्येदित्यर्थः । अन्त्यमकं पुरातनैर्वामस्थैरन्त्यापेक्षया द्वितीयतुर्यषष्ठाकैर्यथासंभवं योजयेत् । प्रथमं तावदन्त्यभूतं द्वयङ्कम् । अत्र पुरातनेषु द्वितीयस्यैव सद्भावात् तेनैकाङ्केन सह योजयित्वा व्यङ्कं दक्षिणसंस्थं लिखेत् । ततस्तमन्त्यभूतं पुरातनेषु द्वितीयेन द्वयङ्केन, 'अभावे तुर्यषष्ठयोः', 'तृतीयपञ्चमाङ्काभ्यां क्रमाद् युञ्जीत' इति वचनादत्र तुर्याभावे तत्प्रतिनिधिना Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy