SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११६ संगीतरत्नाकरः " तान्यक्षराणि वक्ष्ये यानि पुरा ब्रह्मगीतानि । झ झण्टुं दिगिदिगिदिगिदिगिदिगि कुचझलझण्टुमिति । एतद्वा ज्ञेयं तितिझलवृद्धं लयान्तरे गदितम् || कुचझलसहितं मध्ये तितिकुचयुक्तं भवेज्ज्येष्ठे । " इति ॥ (सु० ) वर्धमानं विभजते - कण्डिकेति । कण्डिकावर्धमानं च त्रिप्रकारम् | आसारिताभासम्; वर्धमानासारितम् ; वर्धमानमिति । तत्र कण्डिकावर्धमानं लक्षयति - कण्डिकाभिरिति । विशालाभिः चतसृभिः कण्डिकाभिः विरचितं कण्डकावर्धमानम् | कण्डिकां लक्षयति-तासामिति तासां मध्ये, विशालायां नव कलाः; संगतायामष्टौ कलाः; सुनन्दायां षोडश कलाः; सुमुख्यां द्वात्रिंशत्कला इति । आसाम् ; चतसृणामुपोहनानि चतुर्णामासारितानामिव कमात् कर्तव्यानि । कनिष्ठासारितोपहनवत् विशालायामुपोहनम् ; लयान्तरासारितोपोहनवत्संगतायाम्; मध्यमासारितोपहनवत्सुनन्दायाम् ; ज्येष्ठासारितोपोहनवत्सुमुख्यामिति । तेष्वपोहनेषु आद्यौ द्वौ गुरू झण्टुमित्यक्षराभ्यां गेयौ । अन्ते वर्तमानो गुरुश्च 'वा' इत्यनेन वर्णेन गेयम् । विशालायां मुखादारभ्य गुरुद्वयं चतुर्दश लघवः । अन्येषु संगतादिषु चत्वारश्वत्वारो लघवोऽधिकाः । एष्विति । एपु; उपोहनेषु । विधिः ; ब्रह्मा । श्रेयसे; अभ्युदयाय नियतान्यक्षराणि अब्रूत । भगवान् भरतोऽपि तानि अक्षराणि व्यक्तानि आह । १९९-२०३ ॥ 66 ' (क०) तानीति । झण्टुं झण्टुं दिगिदिगिदिगि दिगिहिगि कुचझलवा इति विशालपोहने, कनिष्ठासारितोपोहने चाक्षराणि । एतत् बाले कनिष्ठासारिते ज्ञेयम् । तितिझलवृद्धमिति । झण्टुं झण्टुं दिगिदिगिदिगिदिगिदिगि कुचझल तितिझलवा इति संगतोपोहने चाक्षराणि । कुचझलसहितमिति । झण्टुं झण्टुं दिगिदिगिदिगिदिगिदिगि कुचझलति तिझलकुचझलवा इति सुनन्दोपोहने चाक्षराणि । तितिकुचयुक्तं भवेज्ज्येष्ठ इति । झण्टुं झण्टुं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy