SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्तालाध्यायः एवं चत्वारि वस्तुनि त्रीणि सार्धानि वा गीत्वा कनिष्ठासारितात्मकं संहरणं कार्य यथा, अथवा अन्त्यसंनिपातवर्जिताभिः कनिष्ठासारितस्य कलाभिरन्विता अन्त्यवस्तुनः षष्ठीमात्रा संहरणं कार्यम् । अथवा एवमात्मिका सप्तमी मात्रा संहरणं कार्यम् । यथा SS SS SS SS SS SS SS SS SS SS शता शता संता शता | संता शता शता। संता शता शता। इति प्रकरी ओवेणकं द्वादशाङ्गं सप्ताङ्गं च परावरम् । स्यात्पादः प्रतिपादश्च माषघातोपवर्तनम् ॥ १४३ ॥ (क०) एवमिति । एवं चत्वारि वस्तूनि त्रीणि वा सार्धानि गीत्वा, ततः कनिष्ठासारितात्मकं संहरणं कार्यम् । अस्य प्रस्तारो यथा-- आदौ यथाक्षरं चच्चत्पुटं प्रस्तार्य, " आसारितादौ शम्यादिः" इति नियमस्य व्यवस्थितत्वात् तदधः शताशतान् लिखेत् । ततो यथाक्षरौ षपितापुत्रको प्रस्तार्य तयोरधः प्रत्येकं संताशताशातान् लिखेत् । “ संनिपातेऽन्तिमेऽधिके" इत्युक्तत्वात् । अन्तिममधिकं लिखित्वा तदधः संनिपातं लिखेत् । अथवा अधिकान्त्यसंनिपातवर्जिताभिः कनिष्ठासारितस्य कलाभिरन्विता अन्त्यवस्तुनः षष्ठीमात्रा संहरणं कार्या। अथवा एवमात्मिका सप्तमी मात्रा संहरणं कार्या । यथा पूर्वोक्तपातकलायुक्तां षष्ठी मात्रां तादृशीं सप्तमी मात्रां वा लिवेत् ॥ इति प्रकरी (क०) अनन्तरमोवेणकं लक्षयति-ओवेणकं द्वादशाङ्गमित्यादि। अङ्गानि तु–पादः, प्रतिपादः, माषघातः, उपवर्तनम् , संधिः, चतुरश्रम् , वज्रम् , संपिष्टकम् , वेणी, प्रवेणी, उपपातः, अन्ताहरणमित्येतानि Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy