SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः आये कलाचतुष्केऽन्त्ये पदानि पाश्चि योजयेत् । विविधोऽस्याद्यभागे स्यादेककं तु ततः परम् ॥ १२१ ।। पूर्वार्धस्थपदात्या युङमहाजनिक विदुः । स्थिततालयुतं तस्य गीताङ्गनियमो न च ॥ १२२ ॥ व्यश्रेऽन्ते व्यश्रतालेन द्विकलेन स्थितं भवेत् । यथाक्षरेणोत्तरेण प्रवृत्तं तत्र कीर्तितम् ॥ १२३ ।। ध्यश्रेण महाजनिकं महाजनिकवन्मतम् । तत् ; तत्र । आये कलात्रय उद्घट्ट इति । उद्धट्टके तु निष्कामं शम्याद्वयं च योजये दित्युद्धट्टोक्ताः पातकला निशशा योजनीया इत्यर्थः । अन्त्ये कलाचतुष्के प्राश्चि पदानि योजयेदिति । आद्यकलाचतुष्कोक्तान्येव पदान्यन्त्यकलाचतुष्केऽपि गायेदित्यर्थः । अस्येति । युग्मप्रवृत्तस्य । आद्यमङ्गं विविधः स्यात् । ततः परं त्वेककं स्यात । पूर्वार्धस्थेत्यादि । पूर्वार्धस्थपदाढत्येति । महाजनिके पूर्वार्धस्थितानामेव पदानामावृत्तिः कर्तव्या, नोत्तरार्धस्थितानामित्यर्थः । युङ्महाजनिकमिति । युग्मे महाजनिकम् । स्थिततालयुतमिति । युग्मस्थिते यस्ताल उक्तो द्विकलचच्चत्पुटः, तेन युक्तमित्यर्थः । तस्य ; महाजनिकस्य. गीताङ्गनियमः; विविधादीनां गीताङ्गानां नियमो न चेति यथारुचि कर्तव्यानीत्यर्थः । व्यश्रेऽन्त इत्यादिना। द्विकलेन व्यश्रतालेन द्विकलचाचपुटेन स्थितं भवेत । तत्र; त्र्य) अयुग्मे यथाक्षरेणोत्तरेण प्रवृत्तं कीर्तितम् । ज्यश्रेण महाजनिकं व्यश्रेण द्विकलचाचपुटेन । महाजनिकवदिति । युग्ममहाजनिकवत पूर्वार्धस्थपदावृत्त्या कर्तव्यमित्यर्थः ॥ १२०-१२३. ॥ _ (मु०) एतेषां लक्षणमाह--युग्म इति । युग्मे अन्ते, द्विकलयुग्मेन चच्चत्पुटेन स्थायिवर्णगतं स्थितमित्युच्यते । तेनैव द्विकलेन चच्चत्पुटेन वृत्तं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy