________________
७०
संगीतरत्नाकर:
वर्णानुकर्षणं तालवृत्तिर्वाङ्गनिवेशने ॥ ११५ ॥ यद्वा शाखेयमुदिता मात्रा वैहायसात्मिका । शाखैत्र प्रतिशाखोक्ता सा त्वन्यपदनिर्मिता ॥ ११६ ॥ ततोऽन्ताहरणं प्रोक्तं गीतकस्य समाप्तिकृत् । वृत्तं संहरणेऽत्र स्यादन्यदा त्वेककं भवेत् ॥ ११७ ॥ विविध वा त्रिधान्तोऽथ युगयुमिश्रभेदतः । युग्मोsन्तः प्रथमस्तेषां त्र्यश्र इत्याह दत्तिलः ॥ ११८ ॥ स्थितं प्रवृत्तमपरं महाजनिकमित्यपि । त्रीण्यङ्गानि पृथक्तेषां लक्षणं प्रतिपाद्यते ॥ ११९ ॥
हायम् । द्वादशकलम् ; द्वादशगुरुकालमितम् । उल्लोप्यकसमापकम् ; उल्लोप्यकस्य समाप्तिकृत् । अङ्गनिवेशने; अङ्गानां विविधादीनां निवेशने प्रयोगे; वर्णानुकर्षणम् ; वर्णानामक्षराणाम्, अनुकर्षणं पुनरुच्चारणम् । तालावृत्तिश्च कर्तव्ये भवतः । यद्वेत्यादि । वैहायसात्मिका इयं मात्रा केषांचिन्मते शाखेत्युदिता । केचिद्वैहायसमेव शाखां वदन्तीत्यर्थः । सा शाखैव अन्यपदनिर्मिता प्रतिशाखेत्युक्ता । ततो यथाक्षरे पञ्चपाणौ अन्ताहरणं नामाङ्गं प्रोक्तम् । गीतकस्य उल्लोप्यकस्य समाप्तिकृत् एतदन्ताहरणमेव संहरणमिति संज्ञान्तरेणापि प्रोक्तम् । अत्र संहरणे वृत्तं स्यात् । वृत्तं नाम ; ' वृत्तं तिस्रश्चतस्रो वा पञ्च षड़ा विदारिका: ' इत्यादिनोक्तलक्षणमित्यनुसंधेयम् । अन्यदा त्विति । अन्ताहरणाभावपक्षे त्वेककं विविधो वा भवेत् । अथ; अन्ताहरणानन्तरम् । अन्तः; अन्तो नामाङ्गविशेषः । युगयुमिश्रभेदत इति । युगिति युग्मः ; अयुगित्ययुग्मः ; मिश्र इति युग्मायुग्मः ; एवं त्रेधा भवति । तेषामिति ; त्रयाणां मध्ये । युग्मोsन्त: प्रथम इति । भरतादिमतेनेति शेषः । दत्तिलस्तु व्यथः प्रथम
Scanned by Gitarth Ganga Research Institute