________________
प्रथमः स्वरगताध्यायः
श्रवणे नयने नासे वदनं गुदशेफसी ।। ८६ ।। वहिर्मलबहानि स्युर्नव स्रोतांसि देहिनाम् ।। स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोझै भगे ऽसृजः ।। ८७ ॥ अस्थिस्नायुसिरामांसस्थानि जालानि पोडश । षट् कूर्चाः करयोरङ्घयोः कंधरायां च मेहने ।। ८८ ॥ पार्श्वयोः पृष्ठवंशस्य चतस्रो मांसरजवः । सीवन्यः पञ्च शिरसि द्वे जिह्वालिङ्गयोर्मते ।। ८९ ॥ चतुर्दशाष्टादश वा 'संमता अस्थिराशयः । अस्थ्नां शरीरे संख्या स्यात्पष्टियुक्तं शतत्रयम् ।। ९० ।। वलयानि कपालानि रुचकास्तरुणानि च । नलकानीति तान्याहुः पञ्चधा ऽस्थीनि मूरयः ।। ९१ ।।
त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत । कान्पदार्थान्पश्यति । स्वपितिशब्दं निवक्ति-स्वमपीत इति । 'स्वं ह्यपीतो भवति, तस्मादेनं स्वपितीत्याचक्षते' इति श्रुतेः ॥ -८३-८५- ॥
(क०) श्रवणे नयने इत्यादिरस्मद्विरचिते ऽध्यात्मविवेके वीक्ष्यतां बुधैरित्यन्तः स्पष्टार्थः ।। -८६-११९ ॥
(सु०) बहिर्मलवहानि रन्ध्राणि कथयति-श्रवणे इति ॥ -८६-८७ ।। जलानि षोडश षट् कूर्चान्रज्जूश्चतस्त्रः सप्त सीवनीश्च कथयति-अस्थीस्यादिना ॥ ८८, ८९ ॥ 'मतभेदेनास्थिराशीन्कथयति-चतुर्दशेति ॥ ८९-॥ अस्थीनि संख्याति-अस्नामिति ॥-९० ॥ आकारविशेषेण पञ्चधा ऽस्थीन्याह-वलयानीति ॥ ९१ ॥ मतभेदेनास्थामन्यथा संख्यां ख्यापयति
सीमन्ता. नामभेदेन.
Scanned by Gitarth Ganga Research Institute