________________
२७४
संगीतरत्नाकर:
[जातिप्रकरणम् ७ ]
रागांशाः, ग्रामरागादयो दशविधा अपि जातीनां साक्षात्परंपरया वा जन्यरागा एव तेषामंशा अवयवाः; तथा च वक्ष्यति --- ' रागान्तर - स्यावयवो रागांश:' इति । रागैकदेशा इत्यर्थः । जनकजातिषु साक्षात्परंपरया वा स्वेषां जनिकासु जातिषु तज्ज्ञै रागभेदविद्भिर्दृश्यन्त उद्भाव्यन्त इत्यर्थः । अथ यथाविधि जातिगानैरदृष्टफलातिशयं दर्शयति - ब्रह्मप्रोक्तेति । प्राक्पूर्व शंकरस्तुतौ शंकरस्तुतिं विषयीकृत्य ब्रह्मप्रोक्तपदैः, ब्रह्मणा चतुर्मुखेण प्रोक्तैर्ग्रथितैः पदैः 'तं भवललाट ' इत्यादिभिर्योजयित्वा सम्यगन्यूनान तिरेकेणोक्ता गीताश्चेदमू: पाड्ज्यादयो जातयो ब्रह्मणमपि ब्रह्मन्नमपि पुरुषं पापाद् ब्रह्महत्यारूपान्मोचयित्वा प्रपुनन्ति पूतं कुर्वन्ति । अ सम्यग्जातिगानस्य महापातकप्रायश्चित्तत्वमुक्तं भवति । एवं सामर्थ्य जातीनामुक्तनियमयुक्तानामृगादिमन्त्रसादृश्य हेतुत्वेनाभिसंधाय तासाम नियमप्रयोगं निषेधति - ऋच इति । ऋचो यजूंषि सामानि यथा ऽन्यथा न क्रियन्ते स्वरवर्णोच्चारणादिवैपरीत्येन न प्रयुज्यन्ते, तथा सामसमुद्भूताः सामभ्यः समुत्पन्ना अत एव वेदसंमिता वेदसदृशा जातयो ऽन्यथा न क्रियन्ते; स्वरपदतालादिवैपरीत्येन न प्रयोक्तव्या इत्यर्थः । एतेन विपरीत प्रयोगे प्रत्यवायः सूचितो भवति ॥ ११३ – ११४- ॥
( सु० ) दृश्यन्त इति । यासु जन्यजातिषु रागांशा नोक्तास्तासु तज्जनकजातिरागांशा ज्ञातव्याः । उक्ता जाती : स्तौति — ब्रह्मप्रोक्तपदैरिति । प्रस्तारोक्तानि पदानि शंकरस्तुतौ ब्रह्मप्रोक्तानि ; तैः पदैः सम्यग्लक्षणाव्यभिचारेण प्रयुक्ता जातयो ब्रह्महणं ब्रह्मन्नमपि पवित्रयन्ति, किमुतान्यपापिनमित्यर्थः । जातीनामन्यथाप्रयोगे दोषमाह - ऋच इति । वेदसमाना जातयस्ता असम्यक्प्र योगे दोषात्सम्यक्प्रोक्तव्या इत्यर्थः ॥ ११३ – ११४-॥
इति प्रथमे स्वरगताध्याये सप्तमं जातिप्रकरणम् ॥ ७ ॥
Scanned by Gitarth Ganga Research Institute